Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.160
सञ्जय उवाच॥
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत्। अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥७-१६०-१॥
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः। सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥७-१६०-२॥
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया। त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥७-१६०-३॥
सर्वथा परिहीनाः स्म तेजसा च बलेन च। भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥७-१६०-४॥
दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि। तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥७-१६०-५॥
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः। युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥७-१६०-६॥
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम। सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥७-१६०-७॥
स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः। शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥७-१६०-८॥
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते। समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥७-१६०-९॥
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे। अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ॥ अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥७-१६०-१०॥
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम्। तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ॥७-१६०-११॥
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम्। विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥७-१६०-१२॥
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे। तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥७-१६०-१३॥
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः। उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥७-१६०-१४॥
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः। सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥७-१६०-१५॥
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः। निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥७-१६०-१६॥
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः। यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥७-१६०-१७॥
निवातकवचाश्चापि देवानां शत्रवस्तथा। सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥७-१६०-१८॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम्। विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥७-१६०-१९॥
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव। क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥७-१६०-२०॥
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा। द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥७-१६०-२१॥
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे। हनिष्यामोऽर्जुनं सङ्ख्ये द्वैधीकृत्याद्य भारतीम् ॥७-१६०-२२॥
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव। अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥७-१६०-२३॥
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा। अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥७-१६०-२४॥
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः। नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥७-१६०-२५॥
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत। युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥७-१६०-२६॥
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः। श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥७-१६०-२७॥
गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम्। त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥७-१६०-२८॥
इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः। त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥७-१६०-२९॥
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः। दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ॥७-१६०-३०॥
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः। देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥७-१६०-३१॥
त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत्। असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥७-१६०-३२॥
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे। पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥७-१६०-३३॥
इति ते कत्थमानस्य श्रुतं संसदि संसदि। अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥७-१६०-३४॥
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः। क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥७-१६०-३५॥
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्। कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥७-१६०-३६॥
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे। द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥७-१६०-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.