Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.168
Pancharatra and Core: Bhima and Dhrushtadyumna rebuke Arjuna for his soft words, saying neither Drona nor Ashwatthama have the right to protect themselves with Dharma after committing great injustice.
सञ्जय उवाच॥
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः। अप्रियं वा प्रियं वापि महाराज धनञ्जयम् ॥७-१६८-१॥
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत। उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥७-१६८-२॥
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम्। न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ॥७-१६८-३॥
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु। क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ॥७-१६८-४॥
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः। अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ॥७-१६८-५॥
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः। न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥७-१६८-६॥
न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम्। अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥७-१६८-७॥
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते। आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥७-१६८-८॥
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः। द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥७-१६८-९॥
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः। अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥७-१६८-१०॥
एतान्यमर्षस्थानानि मर्षितानि त्वयानघ। क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥७-१६८-११॥
तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया। सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥७-१६८-१२॥
त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम्। घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥७-१६८-१३॥
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते। भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥७-१६८-१४॥
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन। विदीर्यते मे हृदयं त्वया वाक्षल्यपीडितम् ॥७-१६८-१५॥
अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे। यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ॥ यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ॥७-१६८-१६॥
स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम्। दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥७-१६८-१७॥
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम्। गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥७-१६८-१८॥
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ। द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥७-१६८-१९॥
अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः। अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥७-१६८-२०॥
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्। सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ॥७-१६८-२१॥
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम्। याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ॥७-१६८-२२॥
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः। हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ॥७-१६८-२३॥
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः। अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ॥७-१६८-२४॥
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्। माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥७-१६८-२५॥
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा। कुरुते भैरवं नादं तत्र किं मम हीयते ॥७-१६८-२६॥
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया। घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥७-१६८-२७॥
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्। तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥७-१६८-२८॥
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे। तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ॥७-१६८-२९॥
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः। सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥७-१६८-३०॥
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्। जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ॥७-१६८-३१॥
नृशंसः स मयाक्रम्य रथ एव निपातितः। तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥७-१६८-३२॥
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम्। भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ॥७-१६८-३३॥
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान्। छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥७-१६८-३४॥
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया। निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥७-१६८-३५॥
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन। क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ॥७-१६८-३६॥
स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव। यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥७-१६८-३७॥
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः। मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥७-१६८-३८॥
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन। शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ॥७-१६८-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.