Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.169
Pancharatra and Core: Picking on Arjuna, Satyaki rebukes Dhrishtadyumna. In the following altercation, Satyaki attempts to kill Dhrishtadyumna, only to be consoled by Bhima and Krishna.
धृतराष्ट्र उवाच॥
साङ्गा वेदा यथान्यायं येनाधीता महात्मना। यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ॥७-१६९-१॥
तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा। नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ॥७-१६९-२॥
यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः। अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ॥७-१६९-३॥
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः। नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ॥७-१६९-४॥
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः। श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ॥७-१६९-५॥
सञ्जय उवाच॥
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः। तूष्णीं बभूवू राजानः सर्व एव विशां पते ॥७-१६९-६॥
अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम्। सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ॥७-१६९-७॥
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे। आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ॥७-१६९-८॥
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्। भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥७-१६९-९॥
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते। गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥७-१६९-१०॥
याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः। यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥७-१६९-११॥
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्। वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥७-१६९-१२॥
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः। निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥७-१६९-१३॥
सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः। यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥७-१६९-१४॥
उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम्। तथान्तो विहितस्तेन स्वयमेव महात्मना ॥७-१६९-१५॥
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः। नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥७-१६९-१६॥
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल। शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥७-१६९-१७॥
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः। त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥७-१६९-१८॥
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि। शिरस्ते पातयिष्यामि गदया वज्रकल्पया ॥७-१६९-१९॥
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्। संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ॥७-१६९-२०॥
श्रूयते श्रूयते चेति क्षम्यते चेति माधव। न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ॥७-१६९-२१॥
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्। क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥७-१६९-२२॥
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः। आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥७-१६९-२३॥
यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया। वार्यमाणेन निहतस्ततः पापतरं नु किम् ॥७-१६९-२४॥
व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे। विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥७-१६९-२५॥
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्। छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ॥७-१६९-२६॥
निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान्। किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥७-१६९-२७॥
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः। यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥७-१६९-२८॥
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्। किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ॥७-१६९-२९॥
स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम्। वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ॥७-१६९-३०॥
कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम। पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥७-१६९-३१॥
जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम्। अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ॥७-१६९-३२॥
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्। गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥७-१६९-३३॥
न चैव मूर्ख धर्मेण केवलेनैव शक्यते। तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥७-१६९-३४॥
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः। द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ॥७-१६९-३५॥
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया। सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ॥७-१६९-३६॥
अधर्मेणापकृष्टश्च मद्रराजः परैरितः। इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ॥ भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥७-१६९-३७॥
एवं परैराचरितं पाण्डवेयैश्च संयुगे। रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥७-१६९-३८॥
दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः। युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥७-१६९-३९॥
एवमादीनि वाक्यानि क्रूराणि परुषाणि च। श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥७-१६९-४०॥
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्। विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥७-१६९-४१॥
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत्। न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥७-१६९-४२॥
तमापतन्तं सहसा महाबलममर्षणम्। पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ॥७-१६९-४३॥
चोदितो वासुदेवेन भीमसेनो महाबलः। अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥७-१६९-४४॥
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली। प्रस्कन्दमानमादाय जगाम बलिनं बलात् ॥७-१६९-४५॥
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः। निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥७-१६९-४६॥
अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा। उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ॥७-१६९-४७॥
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते। परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ॥७-१६९-४८॥
तथैवान्धकवृष्णीनां तव चैव विशेषतः। कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ॥७-१६९-४९॥
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्। नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥७-१६९-५०॥
स भवानीदृशं मित्रं मन्यते च यथा भवान्। भवन्तश्च यथास्माकं भवतां च तथा वयम् ॥७-१६९-५१॥
स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन्। नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ॥७-१६९-५२॥
पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः। वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥७-१६९-५३॥
प्रशाम्यमाने शैनेये सहदेवेन मारिष। पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥७-१६९-५४॥
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्। आसादयतु मामेष धराधरमिवानिलः ॥७-१६९-५५॥
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम्। युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ॥७-१६९-५६॥
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम्। सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥७-१६९-५७॥
अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे। अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥७-१६९-५८॥
मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे। उत्सृजैनमहं वैनमेष मां वा हनिष्यति ॥७-१६९-५९॥
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन्। भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥७-१६९-६०॥
त्वरया वासुदेवश्च धर्मराजश्च मारिष। यत्नेन महता वीरौ वारयामासतुस्ततः ॥७-१६९-६१॥
निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ। युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ॥७-१६९-६२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.