07.170
Pancharatra and Core: Krishna asks the Pandavas to lay down their arms, and to show respect to the Narayana weapon. Everyone follows Krishna's instructions except Bhima, on whose head the Narayana weapon strikes.
सञ्जय उवाच॥
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः। युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥७-१७०-१॥
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्। अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ॥७-१७०-२॥
शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम्। निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥७-१७०-३॥
ततो वेगेन महता विनद्य स नरर्षभः। प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥७-१७०-४॥
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः। मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥७-१७०-५॥
तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम्। विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ॥७-१७०-६॥
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे। सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ॥७-१७०-७॥
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्। सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥७-१७०-८॥
ततः समागमो राजन्कुरुपाण्डवसेनयोः। पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥७-१७०-९॥
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः। उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥७-१७०-१०॥
तेषां परमहृष्टानां जयमात्मनि पश्यताम्। संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ॥७-१७०-११॥
यथा शिलोच्चये शैलः सागरे सागरो यथा। प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ॥७-१७०-१२॥
ततः शङ्खसहस्राणि भेरीणामयुतानि च। अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥७-१७०-१३॥
ततो निर्मथ्यमानस्य सागरस्येव निस्वनः। अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ॥७-१७०-१४॥
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा। अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥७-१७०-१५॥
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः। पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ॥७-१७०-१६॥
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे। मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ॥७-१७०-१७॥
तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले। प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ॥७-१७०-१८॥
चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः। चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥७-१७०-१९॥
शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ। दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥७-१७०-२०॥
यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः। तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ॥७-१७०-२१॥
वध्यमानास्तथास्त्रेण तेन नारायणेन वै। दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ॥७-१७०-२२॥
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः। तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥७-१७०-२३॥
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो। जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥७-१७०-२४॥
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम्। मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥७-१७०-२५॥
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया। सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ॥७-१७०-२६॥
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्। उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ॥७-१७०-२७॥
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः। अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥७-१७०-२८॥
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम्। अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ॥७-१७०-२९॥
कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति। कल्याणवृत्त आचार्यो मया युधि निपातितः ॥७-१७०-३०॥
येन बालः स सौभद्रो युद्धानामविशारदः। समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥७-१७०-३१॥
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता। उपेक्षिता सपुत्रेण दासभावं नियच्छती ॥७-१७०-३२॥
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम्। कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ॥७-१७०-३३॥
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः। कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥७-१७०-३४॥
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः। निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥७-१७०-३५॥
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्। हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥७-१७०-३६॥
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः। निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥७-१७०-३७॥
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत। एष योगोऽत्र विहितः प्रतिघातो महात्मना ॥७-१७०-३८॥
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत। एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥७-१७०-३९॥
यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति। तथा तथा भवन्त्येते कौरवा बलवत्तराः ॥७-१७०-४०॥
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये। तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ॥७-१७०-४१॥
ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन। निहनिष्यति तान्सर्वान्रसातलगतानपि ॥७-१७०-४२॥
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत। ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ॥७-१७०-४३॥
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः। भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥७-१७०-४४॥
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित्। अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥७-१७०-४५॥
अथ वाप्यनया गुर्व्या हेमविग्रहया रणे। कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ॥७-१७०-४६॥
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह। यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥७-१७०-४७॥
पश्यध्वं मे दृढौ बाहू नागराजकरोपमा। समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥७-१७०-४८॥
नागायुतसमप्राणो ह्यहमेको नरेष्विह। शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ॥७-१७०-४९॥
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि। ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥७-१७०-५०॥
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते। अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥७-१७०-५१॥
एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः। अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥७-१७०-५२॥
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः। निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥७-१७०-५३॥
ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च। अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥७-१७०-५४॥
पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे। अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥७-१७०-५५॥
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे। खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥७-१७०-५६॥
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति। अवर्धत महाराज यथाग्निरनिलोद्धतः ॥७-१७०-५७॥
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्। पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥७-१७०-५८॥
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले। अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥७-१७०-५९॥
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च। तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥७-१७०-६०॥
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः। भीमसेनमपश्यन्त तेजसा संवृतं तदा ॥७-१७०-६१॥