Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.172
सञ्जय उवाच॥
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः। न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ॥७-१७२-१॥
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे। संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥७-१७२-२॥
एक एव तु बीभत्सुः सोमकावयवैः सह। मत्स्यैरन्यैश्च सन्धाय कौरवैः संन्यवर्तत ॥७-१७२-३॥
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्। सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥७-१७२-४॥
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम्। धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ॥ यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ॥७-१७२-५॥
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः। कालानलसमप्रख्यो द्विषतामन्तको युधि ॥ समासादय पाञ्चाल्यं मां चापि सहकेशवम् ॥७-१७२-६॥
धृतराष्ट्र उवाच॥
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय। प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः ॥७-१७२-७॥
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्। अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ॥७-१७२-८॥
सञ्जय उवाच॥
युवराजे हते चैव वृद्धक्षत्रे च पौरवे। इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥७-१७२-९॥
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते। युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ॥७-१७२-१०॥
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो। अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥७-१७२-११॥
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान्। मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ॥७-१७२-१२॥
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप। पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ॥ द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ॥७-१७२-१३॥
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्। देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ॥७-१७२-१४॥
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः। सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ॥ सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥७-१७२-१५॥
ततस्तुमुलमाकाशे शरवर्षमजायत। ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ॥७-१७२-१६॥
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम्। रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ॥७-१७२-१७॥
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः। परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥७-१७२-१८॥
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम्। त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ॥७-१७२-१९॥
शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा। निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥७-१७२-२०॥
जलजानि च सत्त्वानि दह्यमानानि भारत। न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥७-१७२-२१॥
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः। उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥७-१७२-२२॥
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः। प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ॥७-१७२-२३॥
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः। नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥७-१७२-२४॥
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः। त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ॥७-१७२-२५॥
द्रुमाणां शिखराणीव दावदग्धानि मारिष। अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ॥ अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ॥७-१७२-२६॥
तत्सैन्यं भगवानग्निर्ददाह युधि भारत। युगान्ते सर्वभूतानि संवर्तक इवानलः ॥७-१७२-२७॥
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे। प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥७-१७२-२८॥
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत। तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥७-१७२-२९॥
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः। तमसा संवृते लोके नादृश्यत महाहवे ॥७-१७२-३०॥
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्। यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥७-१७२-३१॥
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्। सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ॥७-१७२-३२॥
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह। प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ॥७-१७२-३३॥
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्। अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ॥७-१७२-३४॥
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ। सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ॥७-१७२-३५॥
सपताकध्वजहयः सानुकर्षवरायुधः। प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः ॥७-१७२-३६॥
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह। पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥७-१७२-३७॥
हताविति तयोरासीत्सेनयोरुभयोर्मतिः। तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥७-१७२-३८॥
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ। दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ॥७-१७२-३९॥
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः। मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ॥७-१७२-४०॥
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः। निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ॥७-१७२-४१॥
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः। धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥७-१७२-४२॥
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्। आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ॥७-१७२-४३॥
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह। सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥७-१७२-४४॥
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत्। अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥७-१७२-४५॥
अधरोत्तरमेतद्वा लोकानां वा पराभवः। यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥७-१७२-४६॥
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः। न सर्पयक्षपतगा न मनुष्याः कथञ्चन ॥७-१७२-४७॥
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्। तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ॥७-१७२-४८॥
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ। एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ॥७-१७२-४९॥
व्यास उवाच॥
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात्। तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥७-१७२-५०॥
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः। अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥७-१७२-५१॥
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः। ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ॥७-१७२-५२॥
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च। अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ॥७-१७२-५३॥
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्। द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥७-१७२-५४॥
स तेन तपसा तात ब्रह्मभूतो यदाभवत्। ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ॥७-१७२-५५॥
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम्। अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ॥७-१७२-५६॥
रुद्रमीशानमृषभं चेकितानमजं परम्। गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ॥७-१७२-५७॥
दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम्। दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् ॥७-१७२-५८॥
पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम्। सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् ॥७-१७२-५९॥
शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसङ्घैः। एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः ॥७-१७२-६०॥
जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च। नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् ॥७-१७२-६१॥
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः। स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श ॥ दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् ॥७-१७२-६२॥
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्। ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥७-१७२-६३॥
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्। अजमीशानमव्यग्रं कारणात्मानमच्युतम् ॥७-१७२-६४॥
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने। पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ॥७-१७२-६५॥
त्वत्सम्भूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः। आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरा पुराणां तव देव सृष्टिम् ॥७-१७२-६६॥
सुरासुरान्नागरक्षःपिशाचा; न्नरान्सुपर्णानथ गन्धर्वयक्षान्। पृथग्विधान्भूतसङ्घांश्च विश्वां; स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥ ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥७-१७२-६७॥
रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी। कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् ॥७-१७२-६८॥
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं सङ्क्षये यान्ति भूयः। एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति ॥७-१७२-६९॥
दिव्यावृतौ मानसौ द्वौ सुपर्णा; ववाक्षाखः पिप्पलः सप्त गोपाः। दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ॥ भूतं भव्यं भविता चाप्यधृष्यं; त्वत्सम्भूता भुवनानीह विश्वा ॥७-१७२-७०॥
भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन। आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् ॥७-१७२-७१॥
अस्तौषं त्वां तव संमानमिच्छ; न्विचिन्वन्वै सवृषं देववर्य। सुदुर्लभान्देहि वरान्ममेष्टा; नभिष्टुतः प्रतिकार्षीश्च मा माम् ॥७-१७२-७२॥
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक्। अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥७-१७२-७३॥
नीलकण्ठ उवाच॥
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु। अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥७-१७२-७४॥
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः। न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ॥७-१७२-७५॥
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः। न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥७-१७२-७६॥
न शस्त्रेण न वज्रेण नाग्निना न च वायुना। नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ॥७-१७२-७७॥
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन। अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ॥७-१७२-७८॥
व्यास उवाच॥
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा। स एष देवश्चरति मायया मोहयञ्जगत् ॥७-१७२-७९॥
तस्यैव तपसा जातं नरं नाम महामुनिम्। तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥७-१७२-८०॥
तावेतौ पूर्वदेवानां परमोपचितावृषी। लोकयात्राविधानार्थं सञ्जायेते युगे युगे ॥७-१७२-८१॥
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च। तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ॥७-१७२-८२॥
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्। अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥७-१७२-८३॥
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम्। ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥७-१७२-८४॥
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्। पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥७-१७२-८५॥
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः। ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥७-१७२-८६॥
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्। आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥७-१७२-८७॥
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः। प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ॥७-१७२-८८॥
स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः। कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ॥७-१७२-८९॥
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम्। तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥७-१७२-९०॥
सञ्जय उवाच॥
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः। नमश्चकार रुद्राय बहु मेने च केशवम् ॥७-१७२-९१॥
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये। वरूथिनीमभिप्रेत्य अवहारमकारयत् ॥७-१७२-९२॥
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते। कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥७-१७२-९३॥
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्। ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥७-१७२-९४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.