07.173
धृतराष्ट्र उवाच॥
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय। मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥७-१७३-१॥
सञ्जय उवाच॥
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै। कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥७-१७३-२॥
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्। यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ॥७-१७३-३॥
सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम्। अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥७-१७३-४॥
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते। तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ॥७-१७३-५॥
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति। शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥७-१७३-६॥
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः। तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ॥७-१७३-७॥
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः। शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ॥७-१७३-८॥
व्यास उवाच॥
प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम्। भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥७-१७३-९॥
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम्। तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ॥७-१७३-१०॥
महादेवं महात्मानमीशानं जटिलं शिवम्। त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥७-१७३-११॥
तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः। वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥७-१७३-१२॥
महाकाया महोत्साहा महाकर्णास्तथापरे। आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥७-१७३-१३॥
ईदृशैः स महादेवः पूज्यमानो महेश्वरः। स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे ॥७-१७३-१४॥
द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः। कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ॥ ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥७-१७३-१५॥
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते। न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥७-१७३-१६॥
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः। विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥७-१७३-१७॥
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि। ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥७-१७३-१८॥
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्। इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥७-१७३-१९॥
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा। रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥७-१७३-२०॥
कपर्दिने करालाय हर्यक्ष्णे वरदाय च। याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥७-१७३-२१॥
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च। हरिकेशाय मुण्डाय कृशायोत्तरणाय च ॥७-१७३-२२॥
भास्कराय सुतीर्थाय देवदेवाय रंहसे। बहुरूपाय शर्वाय प्रियाय प्रियवाससे ॥७-१७३-२३॥
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे। गिरिशाय प्रशान्ताय पतये चीरवाससे ॥७-१७३-२४॥
हिरण्यबाहवे चैव उग्राय पतये दिशाम्। पर्जन्यपतये चैव भूतानां पतये नमः ॥७-१७३-२५॥
वृक्षाणां पतये चैव अपां च पतये तथा। वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ॥७-१७३-२६॥
स्रुवहस्ताय देवाय धन्विने भार्गवाय च। बहुरूपाय विश्वस्य पतये चीरवाससे ॥७-१७३-२७॥
सहस्रशिरसे चैव सहस्रनयनाय च। सहस्रबाहवे चैव सहस्रचरणाय च ॥७-१७३-२८॥
शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम्। उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ॥७-१७३-२९॥
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्। वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ॥७-१७३-३०॥
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्। वृषायुधं वृषशरं वृषभूतं महेश्वरम् ॥७-१७३-३१॥
महोदरं महाकायं द्वीपिचर्मनिवासिनम्। लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ॥७-१७३-३२॥
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्। पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ॥ प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥७-१७३-३३॥
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा। सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥७-१७३-३४॥
स्रुवहस्ताय देवाय सुखधन्वाय धन्विने। धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ॥७-१७३-३५॥
उग्रायुधाय देवाय नमः सुरवराय च। नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ॥७-१७३-३६॥
नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने। नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ॥७-१७३-३७॥
वनस्पतीनां पतये नराणां पतये नमः। अपां च पतये नित्यं यज्ञानां पतये नमः ॥७-१७३-३८॥
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च। नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥७-१७३-३९॥
कर्माणि चैव दिव्यानि महादेवस्य धीमतः। तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ॥७-१७३-४०॥
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः। सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥७-१७३-४१॥
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा। धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥७-१७३-४२॥
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा। विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥७-१७३-४३॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः। बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥७-१७३-४४॥
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा। पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥७-१७३-४५॥
अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः। जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥७-१७३-४६॥
चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च। ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥७-१७३-४७॥
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव। पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥७-१७३-४८॥
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम्। पुनश्च संदधे दीप्तं देवानां निशितं शरम् ॥७-१७३-४९॥
रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन्। भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥७-१७३-५०॥
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा। यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ॥७-१७३-५१॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि। आयसं राजतं चैव सौवर्णमपरं महत् ॥७-१७३-५२॥
आयसं तारकाक्षस्य कमलाक्षस्य राजतम्। सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ॥७-१७३-५३॥
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि। अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥७-१७३-५४॥
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः। रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ निपातयिष्यसे चैनानसुरान्भुवनेश्वर ॥७-१७३-५५॥
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया। अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥७-१७३-५६॥
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै। त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥७-१७३-५७॥
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्। शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥७-१७३-५८॥
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः। उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ॥७-१७३-५९॥
बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः। स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥७-१७३-६०॥
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम्। सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥७-१७३-६१॥
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम्। अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥७-१७३-६२॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः। अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥७-१७३-६३॥
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः। देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥७-१७३-६४॥
स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित्। स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ॥७-१७३-६५॥
स भवः स च पर्जन्यो महादेवः स चानघः। स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥७-१७३-६६॥
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च। मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥७-१७३-६७॥
स च धाता विधाता च विश्वात्मा विश्वकर्मकृत्। सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥७-१७३-६८॥
सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः। शतधा सहस्रधा चैव तथा शतसहस्रधा ॥७-१७३-६९॥
ईदृशः स महादेवो भूयश्च भगवानजः। न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥७-१७३-७०॥
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्। स मोचयति सुप्रीतः शरण्यः शरणागतान् ॥७-१७३-७१॥
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्। स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ॥७-१७३-७२॥
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते। स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ॥७-१७३-७३॥
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते। महेश्वरश्च भूतानां महतामीश्वरश्च सः ॥७-१७३-७४॥
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्। अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ॥७-१७३-७५॥
एष चैव श्मशानेषु देवो वसति नित्यशः। यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥७-१७३-७६॥
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च। लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ॥७-१७३-७७॥
नामधेयानि लोकेषु बहून्यत्र यथार्थवत्। निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥७-१७३-७८॥
वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम्। नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ॥७-१७३-७९॥
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः। स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ॥७-१७३-८०॥
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा। प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥७-१७३-८१॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः। तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥७-१७३-८२॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्। महयन्ति च लोकाश्च महेश्वर इति स्मृतः ॥७-१७३-८३॥
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा। लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥७-१७३-८४॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः। सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥७-१७३-८५॥
यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम्। स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥७-१७३-८६॥
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा। क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ॥७-१७३-८७॥
धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते। विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥७-१७३-८८॥
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः। द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥७-१७३-८९॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु। शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ॥७-१७३-९०॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा। यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥७-१७३-९१॥
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत्। स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥७-१७३-९२॥
विषमस्थः शरीरेषु समश्च प्राणिनामिह। स वायुर्विषमस्थेषु प्राणापानशरीरिषु ॥७-१७३-९३॥
पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत्। लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥७-१७३-९४॥
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः। आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ॥७-१७३-९५॥
तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः। भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ॥७-१७३-९६॥
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया। यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥७-१७३-९७॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्। मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥७-१७३-९८॥
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः। सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ॥७-१७३-९९॥
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः। येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥७-१७३-१००॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम्। देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ॥७-१७३-१०१॥
सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम्। सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥७-१७३-१०२॥
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा। विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ॥७-१७३-१०३॥
चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम्। पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥७-१७३-१०४॥
भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा। वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ॥७-१७३-१०५॥
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः। यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ॥७-१७३-१०६॥
सञ्जय उवाच॥
एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा। जगाम भरतश्रेष्ठ यथागतमरिंदम ॥७-१७३-१०७॥