Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.059
Pancharatra and Core: Bhima - "Today, O King, the earth is safe and free from threats. Govern it wisely, O great king, while upholding your duty".
धृतराष्ट्र उवाच॥
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः। किमब्रवीत्तदा सूत बलदेवो महाबलः ॥९-५९-१॥
गदायुद्धविशेषज्ञो गदायुद्धविशारदः। कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व सञ्जय ॥९-५९-२॥
सञ्जय उवाच॥
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्। रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥९-५९-३॥
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः। कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥९-५९-४॥
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे। नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥९-५९-५॥
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः। अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्सम्प्रवर्तते ॥९-५९-६॥
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्। ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥९-५९-७॥
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः। बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥९-५९-८॥
तमुत्पतन्तं जग्राह केशवो विनयानतः। बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥९-५९-९॥
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः। नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥९-५९-१०॥
उवाच चैनं संरब्धं शमयन्निव केशवः। आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ॥ विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥९-५९-११॥
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत्। तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ॥९-५९-१२॥
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः। स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥९-५९-१३॥
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह। सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे ॥ इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥९-५९-१४॥
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा। ऊरू भेत्स्यति ते भीमो गदयेति परन्तप ॥९-५९-१५॥
अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ॥९-५९-१५॥
यौनैर्हार्दैश्च सम्बन्धैः सम्बद्धाः स्मेह पाण्डवैः। तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥९-५९-१६॥
राम उवाच॥
धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति। अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ॥९-५९-१७॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्। धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ॥९-५९-१८॥
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्। भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ॥९-५९-१९॥
वासुदेव उवाच॥
अरोषणो हि धर्मात्मा सततं धर्मवत्सलः। भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥९-५९-२०॥
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च। आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ॥९-५९-२१॥
सञ्जय उवाच॥
धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते। नैव प्रीतमना रामो वचनं प्राह संसदि ॥९-५९-२२॥
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्। जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥९-५९-२३॥
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्। ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः ॥९-५९-२४॥
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च। हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ॥९-५९-२५॥
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्। श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥९-५९-२६॥
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते। रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥९-५९-२७॥
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्। शोकोपहतसङ्कल्पं वासुदेवोऽब्रवीदिदम् ॥९-५९-२८॥
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे। हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥९-५९-२९॥
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा। उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥९-५९-३०॥
युधिष्ठिर उवाच॥
न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः। पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥९-५९-३१॥
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्। बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ॥९-५९-३२॥
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते। इति सञ्चिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥९-५९-३३॥
तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम्। लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ॥९-५९-३४॥
सञ्जय उवाच॥
इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम्। काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ॥९-५९-३५॥
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा। अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥९-५९-३६॥
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः। अभिवाद्याग्रतः स्थित्वा सम्प्रहृष्टः कृताञ्जलिः ॥९-५९-३७॥
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्। हर्षादुत्फुल्लनयनो जितकाशी विशां पते ॥९-५९-३८॥
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका। तां प्रशाधि महाराज स्वधर्ममनुपालयन् ॥९-५९-३९॥
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः। सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥९-५९-४०॥
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः। राधेयः शकुनिश्चापि निहतास्तव शत्रवः ॥९-५९-४१॥
सेयं रत्नसमाकीर्णा मही सवनपर्वता। उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥९-५९-४२॥
युधिष्ठिर उवाच॥
गतं वैरस्य निधनं हतो राजा सुयोधनः। कृष्णस्य मतमास्थाय विजितेयं वसुन्धरा ॥९-५९-४३॥
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः। दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥९-५९-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.