Mahabharata - Śalya Parva (महाभारत - शाल्यपर्वम्)
09.060
Pancharatra and Core: Praise for Bhima; Conversation between Duryodhana and Krishna; Duryodhana is honoured by a magnificent shower of fragrant flowers.
धृतराष्ट्र उवाच॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। पाण्डवाः सृञ्जयाश्चैव किमकुर्वत सञ्जय ॥९-६०-१॥
सञ्जय उवाच॥
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे। सिंहेनेव महाराज मत्तं वनगजं वने ॥९-६०-२॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः। पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥९-६०-३॥
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे। नैतान्हर्षसमाविष्टानियं सेहे वसुन्धरा ॥९-६०-४॥
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन्। दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥९-६०-५॥
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः। अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥९-६०-६॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्। कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥९-६०-७॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे। त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥९-६०-८॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः। दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥९-६०-९॥
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्। अशक्यमेतदन्येन सम्पादयितुमीदृशम् ॥९-६०-१०॥
कुञ्जरेणेव मत्तेन वीर सङ्ग्राममूर्धनि। दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ॥९-६०-११॥
सिंहेन महिषस्येव कृत्वा सङ्गरमद्भुतम्। दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥९-६०-१२॥
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम्। मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥९-६०-१३॥
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च। भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥९-६०-१४॥
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः। तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥९-६०-१५॥
दुर्योधनवधे यानि रोमाणि हृषितानि नः। अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत ॥ इत्यब्रुवन्भीमसेनं वातिकास्तत्र सङ्गताः ॥९-६०-१६॥
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह। ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥९-६०-१७॥
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः। असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥९-६०-१८॥
तदैवैष हतः पापो यदैव निरपत्रपः। लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥९-६०-१९॥
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः। पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥९-६०-२०॥
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः। किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥९-६०-२१॥
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः। दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥९-६०-२२॥
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः। अमर्षवशमापन्न उदतिष्ठद्विशां पते ॥९-६०-२३॥
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्। दृष्टिं भ्रूसङ्कटां कृत्वा वासुदेवे न्यपातयत् ॥९-६०-२४॥
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत्। क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥९-६०-२५॥
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन्। दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥९-६०-२६॥
कंसदासस्य दायाद न ते लज्जास्त्यनेन वै। अधर्मेण गदायुद्धे यदहं विनिपातितः ॥९-६०-२७॥
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता। किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ॥९-६०-२८॥
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः। जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥९-६०-२९॥
अहन्यहनि शूराणां कुर्वाणः कदनं महत्। शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥९-६०-३०॥
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते। आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ॥९-६०-३१॥
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान्। पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥९-६०-३२॥
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च। घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ॥९-६०-३३॥
छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली। त्वया निसृष्टेन हतः शैनेयेन दुरात्मना ॥९-६०-३४॥
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया। व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥९-६०-३५॥
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः। पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ॥९-६०-३६॥
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे। ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥९-६०-३७॥
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः। स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥९-६०-३८॥
वासुदेव उवाच॥
हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः। सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ॥९-६०-३९॥
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ। कर्णश्च निहतः सङ्ख्ये तव शीलानुवर्तकः ॥९-६०-४०॥
याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि। पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ॥९-६०-४१॥
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः। प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥९-६०-४२॥
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला। तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ॥९-६०-४३॥
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना। निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥९-६०-४४॥
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने। यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ॥९-६०-४५॥
अभिमन्युश्च यद्बाल एको बहुभिराहवे। त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥९-६०-४६॥
दुर्योधन उवाच॥
अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा। मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥९-६०-४७॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम्। तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥९-६०-४८॥
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः। ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥९-६०-४९॥
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत। यूयं विहतसङ्कल्पाः शोचन्तो वर्तयिष्यथ ॥९-६०-५०॥
सञ्जय उवाच॥
अस्य वाक्यस्य निधने कुरुराजस्य भारत। अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥९-६०-५१॥
अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः। सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ॥९-६०-५२॥
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः। व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ॥९-६०-५३॥
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः। दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ॥९-६०-५४॥
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते। भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥९-६०-५५॥
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः। प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥९-६०-५६॥
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः। ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥९-६०-५७॥
उपाया विहिता ह्येते मया तस्मान्नराधिपाः। अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥९-६०-५८॥
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि। न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥९-६०-५९॥
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः। न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ॥९-६०-६०॥
न च वो हृदि कर्तव्यं यदयं घातितो नृपः। मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः ॥९-६०-६१॥
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः। सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ॥९-६०-६२॥
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे। साश्वनागरथाः सर्वे विश्रमामो नराधिपाः ॥९-६०-६३॥
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह। पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसङ्घवत् ॥९-६०-६४॥
ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः। हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥९-६०-६५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.