Mahabharata - Sauptika Parva (महाभारत - सौप्तिकपर्वम्)
10.010
वैशम्पायन उवाच॥
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः। शशंस धर्मराजाय सौप्तिके कदनं कृतम् ॥१०-१०-१॥
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह। प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥१०-१०-२॥
कृतवर्मणा नृशंसेन गौतमेन कृपेण च। अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥१०-१०-३॥
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः। सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ॥१०-१०-४॥
छिद्यमानस्य महतो वनस्येव परश्वधैः। शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥१०-१०-५॥
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते। मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ॥१०-१०-६॥
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः। पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥१०-१०-७॥
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥१०-१०-८॥
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा। जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥१०-१०-९॥
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः। जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥१०-१०-१०॥
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्। बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥१०-१०-११॥
अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः। जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥१०-१०-१२॥
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः। कथं मन्येत विजयं ततो जिततरः परैः ॥१०-१०-१३॥
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे। निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥१०-१०-१४॥
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे। चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ॥१०-१०-१५॥
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः। ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ॥१०-१०-१६॥
रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम्। शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ॥१०-१०-१७॥
सङ्ग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम्। ये तेरुरुच्चावचशस्त्रनौभि; स्ते राजपुत्रा निहताः प्रमादात् ॥१०-१०-१८॥
न हि प्रमादात्परमोऽस्ति कश्चि; द्वधो नराणामिह जीवलोके। प्रमत्तमर्था हि नरं समन्ता; त्त्यजन्त्यनर्थाश्च समाविशन्ति ॥१०-१०-१९॥
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम्। महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ॥१०-१०-२०॥
महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम्। ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ॥१०-१०-२१॥
न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा। पश्याप्रमादेन निहत्य शत्रू; न्सर्वान्महेन्द्रं सुखमेधमानम् ॥१०-१०-२२॥
इन्द्रोपमान्पार्थिवपुत्रपौत्रा; न्पश्याविशेषेण हतान्प्रमादात्। तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः ॥
कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति। भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ॥ ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः ॥१०-१०-२४॥
तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम्। पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ॥१०-१०-२५॥
इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे। गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ॥१०-१०-२६॥
माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः। ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ॥१०-१०-२७॥
प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः। रोरूयमाणः प्रययौ सुताना; मायोधनं भूतगणानुकीर्णम् ॥१०-१०-२८॥
स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च। भूमौ शयानान्रुधिरार्द्रगात्रा; न्विभिन्नभग्नापहृतोत्तमाङ्गान् ॥१०-१०-२९॥
स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः। उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ॥१०-१०-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.