10.010
Core: Dhṛṣṭadyumna's charioteer reports to Yudhishthira about the massacre. The Pandavas are stuck with grief listening to the death of the sons of Draupadī, along with the sons of Drupada.
वैशम्पायन उवाच॥
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः। शशंस धर्मराजाय सौप्तिके कदनं कृतम् ॥१०-१०-१॥
द्रौपदेया महाराज द्रुपदस्यात्मजैः सह। प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके ॥१०-१०-२॥
कृतवर्मणा नृशंसेन गौतमेन कृपेण च। अश्वत्थाम्ना च पापेन हतं वः शिबिरं निशि ॥१०-१०-३॥
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वधैः। सहस्राणि निकृन्तद्भिर्निःशेषं ते बलं कृतम् ॥१०-१०-४॥
छिद्यमानस्य महतो वनस्येव परश्वधैः। शुश्रुवे सुमहाञ्शब्दो बलस्य तव भारत ॥१०-१०-५॥
अहमेकोऽवशिष्टस्तु तस्मात्सैन्यान्महीपते। मुक्तः कथञ्चिद्धर्मात्मन्व्यग्रस्य कृतवर्मणः ॥१०-१०-६॥
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः। पपात मह्यां दुर्धर्षः पुत्रशोकसमन्वितः ॥१०-१०-७॥
तं पतन्तमभिक्रम्य परिजग्राह सात्यकिः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥१०-१०-८॥
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा। जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदातुरः ॥१०-१०-९॥
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः। जीयमाना जयन्त्यन्ये जयमाना वयं जिताः ॥१०-१०-१०॥
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्। बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम् ॥१०-१०-११॥
अनर्थो ह्यर्थसङ्काशस्तथार्थोऽनर्थदर्शनः। जयोऽयमजयाकारो जयस्तस्मात्पराजयः ॥१०-१०-१२॥
यं जित्वा तप्यते पश्चादापन्न इव दुर्मतिः। कथं मन्येत विजयं ततो जिततरः परैः ॥१०-१०-१३॥
येषामर्थाय पापस्य धिग्जयस्य सुहृद्वधे। निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः ॥१०-१०-१४॥
कर्णिनालीकदंष्ट्रस्य खड्गजिह्वस्य संयुगे। चापव्यात्तस्य रौद्रस्य ज्यातलस्वननादिनः ॥१०-१०-१५॥
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः। ये व्यमुच्यन्त कर्णस्य प्रमादात्त इमे हताः ॥१०-१०-१६॥
रथह्रदं शरवर्षोर्मिमन्तं; रत्नाचितं वाहनराजियुक्तम्। शक्त्यृष्टिमीनध्वजनागनक्रं; शरासनावर्तमहेषुफेनम् ॥१०-१०-१७॥
सङ्ग्रामचन्द्रोदयवेगवेलं; द्रोणार्णवं ज्यातलनेमिघोषम्। ये तेरुरुच्चावचशस्त्रनौभि; स्ते राजपुत्रा निहताः प्रमादात् ॥१०-१०-१८॥
न हि प्रमादात्परमोऽस्ति कश्चि; द्वधो नराणामिह जीवलोके। प्रमत्तमर्था हि नरं समन्ता; त्त्यजन्त्यनर्थाश्च समाविशन्ति ॥१०-१०-१९॥
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं; शरार्चिषं कोपमहासमीरम्। महाधनुर्ज्यातलनेमिघोषं; तनुत्रनानाविधशस्त्रहोमम् ॥१०-१०-२०॥
महाचमूकक्षवराभिपन्नं; महाहवे भीष्ममहादवाग्निम्। ये सेहुरात्तायतशस्त्रवेगं; ते राजपुत्रा निहताः प्रमादात् ॥१०-१०-२१॥
न हि प्रमत्तेन नरेण लभ्या; विद्या तपः श्रीर्विपुलं यशो वा। पश्याप्रमादेन निहत्य शत्रू; न्सर्वान्महेन्द्रं सुखमेधमानम् ॥१०-१०-२२॥
इन्द्रोपमान्पार्थिवपुत्रपौत्रा; न्पश्याविशेषेण हतान्प्रमादात्। तीर्त्वा समुद्रं वणिजः समृद्धाः; सन्नाः कुनद्यामिव हेलमानाः ॥
कृष्णां नु शोचामि कथं न साध्वीं; शोकार्णवे साद्य विनङ्क्ष्यतीति। भ्रातॄंश्च पुत्रांश्च हतान्निशम्य; पाञ्चालराजं पितरं च वृद्धम् ॥ ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां; सा शेष्यते शोककृशाङ्गयष्टिः ॥१०-१०-२४॥
तच्छोकजं दुःखमपारयन्ती; कथं भविष्यत्युचिता सुखानाम्। पुत्रक्षयभ्रातृवधप्रणुन्ना; प्रदह्यमानेव हुताशनेन ॥१०-१०-२५॥
इत्येवमार्तः परिदेवयन्स; राजा कुरूणां नकुलं बभाषे। गच्छानयैनामिह मन्दभाग्यां; समातृपक्षामिति राजपुत्रीम् ॥१०-१०-२६॥
माद्रीसुतस्तत्परिगृह्य वाक्यं; धर्मेण धर्मप्रतिमस्य राज्ञः। ययौ रथेनालयमाशु देव्याः; पाञ्चालराजस्य च यत्र दाराः ॥१०-१०-२७॥
प्रस्थाप्य माद्रीसुतमाजमीढः; शोकार्दितस्तैः सहितः सुहृद्भिः। रोरूयमाणः प्रययौ सुताना; मायोधनं भूतगणानुकीर्णम् ॥१०-१०-२८॥
स तत्प्रविश्याशिवमुग्ररूपं; ददर्श पुत्रान्सुहृदः सखींश्च। भूमौ शयानान्रुधिरार्द्रगात्रा; न्विभिन्नभग्नापहृतोत्तमाङ्गान् ॥१०-१०-२९॥
स तांस्तु दृष्ट्वा भृशमार्तरूपो; युधिष्ठिरो धर्मभृतां वरिष्ठः। उच्चैः प्रचुक्रोश च कौरवाग्र्यः; पपात चोर्व्यां सगणो विसञ्ज्ञः ॥१०-१०-३०॥