11.000
Stree Parva - Kumbhaghonam edition
००१. सञ्जयेन पुत्रादीन्प्रति शोचतो धृतराष्ट्रस्य समाश्वासनम्॥(42)
००२. विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम्॥(37)
००३. विदुरेण धृतराष्ट्रकापनोदनाय शास्त्रार्थकथनम्॥(20)
००४. विदुरेण धृतराष्ट्रंप्रति जीवस्य गर्भवासप्रकारकथनम्॥(20)
००५. विदुरेण धृतराष्ट्रं प्रति उत्तराध्याये वक्ष्यमाणसंसारादीनां कान्तारादित्वेन रूपणम्॥(24)
००६. पूर्वाध्याये कान्तारादित्वेन रूपितानां संसारादीनां स्वस्वशब्दैः प्रतिपादनम्॥(14)
००७. विदुरेण धृतराष्ट्रम्प्रति तत्त्वकथनम्॥(30)
००८. व्यासेन धृतराष्ट्रस्य शोकापनोदनम्॥(53)
००९. धृतराष्ट्रेण गान्धरीप्रभृतिभिः स्त्रीभिः सह मृतजनावलोकनाय रणाङ्कणम्प्रति प्रयाणम्॥(21)
०१०. मृतबन्धुदिदृक्षया समरभूमिं गच्छतो धृतराष्ट्रस्य मध्येमार्गं कृपकृतवर्मद्रौणिभिः समागमः॥
०११. युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम्॥ धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम्॥(30)
०१२. कृष्णवाक्याद्रतमन्युना धृतराष्ट्रेण भीमादीनामालिङ्गनम्॥(17)
०१३. कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम्॥ गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम्॥(21)
०१४. भीमगान्धारीसंवादः॥(24)
०१५. युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम्॥ सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम्॥(21)
०१६. गान्धार्या व्यासप्रसादलब्धदिव्यचक्षुषा रणाङ्कणदर्शंनम्॥ धृतराष्ट्रयुधिष्ठिरादीनां स्त्रीभिः सह रणभूमिप्रवेशः॥ स्त्रीणां विलापः॥ गान्धार्या कृष्णाय विलपत्स्नुषादिप्रदर्शनम्॥(61)
०१७. गान्धार्या दुर्योधनमालिङ्ग्य परिदेवनम्॥(32)
०१८. कृष्णम्प्रति गान्धारीवचनम्॥(28)
०१९. कृष्णम्प्रति गान्धारीवचनम्॥(21)
०२०. कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम्॥(35)
०२१. गान्धार्या कृष्णंप्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्॥(18)
०२२. गान्धार्या कृष्णम्प्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्॥(18)
०२३. कृष्णप्रति गान्धार्या भीष्मद्रोणादिगुणानुवर्णनपूर्वकं तत्तच्छरीराणां विलपन्तीनां त्तत्स्त्रीणां च प्रदर्शनम्॥(43)
०२४. कृष्णम्प्रति गान्धार्य भूरिश्रवः प्रभृतिशरीराणां तत्तस्त्रीणां च प्रदर्शनम्॥(30)
०२५. कृष्णम्प्रति गान्धार्या कुरुपाण्डवसंक्षयस्य कृष्णोपेक्षणहेतुकत्वकथनपूर्वकं सर्वबन्धुसंक्षयाय शापदानम्॥(50)
०२६. शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम्॥ युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम्॥(44)
०२७. मृतानामुदकदानाय धृतराष्ट्रयुधिष्ठिरादिभिर्गङ्गातीरगमनम्॥ उदकदानारम्भे कुन्त्या युधिष्ठिरम्प्रति कर्णस्य स्वपुत्रत्वकथनपूर्वकं तस्या उदकदानचोदना॥ धृतराष्ट्रयुधिष्ठिरादिभिर्बन्धुभ्यो जलदानम्॥(33)