Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.351
सूर्य उवाच॥
नैष देवोऽनिलसखो नासुरो न च पन्नगः। उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ॥१२-३५१-१॥
एष मूलफलाहारः शीर्णपर्णाशनस्तथा। अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः ॥१२-३५१-२॥
ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः। स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः ॥१२-३५१-३॥
असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः। सर्वभूतहिते युक्त एष विप्रो भुजङ्गम ॥१२-३५१-४॥
न हि देवा न गन्धर्वा नासुरा न च पन्नगाः। प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् ॥१२-३५१-५॥
नाग उवाच॥
एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज। संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः ॥१२-३५१-६॥
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते ॥१२-३५१-६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.