01.015
Library:Lord Narayana instructs Brahma to churn the milk ocean by Gods and Demons.
सूत उवाच॥
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥१-१५-१॥
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन्। मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥१-१५-२॥
महौघबलमश्वानामुत्तमं जवतां वरम्। श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥१-१५-३॥
शौनक उवाच॥
कथं तदमृतं देवैर्मथितं क्व च शंस मे। यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥१-१५-४॥
सूत उवाच॥
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्। आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥१-१५-५॥
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम्। अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥१-१५-६॥
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम्। नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥१-१५-७॥
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्। नानापतगसङ्घैश्च नादितं सुमनोहरैः ॥१-१५-८॥
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम्। अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥१-१५-९॥
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥१-१५-१०॥
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥१-१५-११॥
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः। भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥१-१५-१२॥
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि। मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥१-१५-१३॥