Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.031
Library: Names of primary snakes.
शौनक उवाच॥
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१-३१-१॥
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥१-३१-२॥
पन्नगानां तु नामानि न कीर्तयसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥१-३१-३॥
सूत उवाच॥
बहुत्वान्नामधेयानि भुजगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥१-३१-४॥
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥१-३१-५॥
कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥१-३१-६॥
नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥१-३१-७॥
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥१-३१-८॥
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥१-३१-९॥
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१-३१-१०॥
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः। क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥१-३१-११॥
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः। मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१-३१-१२॥
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१-३१-१३॥
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१-३१-१४॥
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥ कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१-३१-१५॥
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१-३१-१६॥
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः। असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१-३१-१७॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥१-३१-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.