Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.103
लोमश उवाच॥
समुद्रं स समासाद्य वारुणिर्भगवानृषिः। उवाच सहितान्देवानृषींश्चैव समागतान् ॥०३-१०३-१॥
एष लोकहितार्थं वै पिबामि वरुणालयम्। भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥०३-१०३-२॥
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः। समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः ॥०३-१०३-३॥
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः। विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥०३-१०३-४॥
त्वं नस्त्राता विधाता च लोकानां लोकभावनः। त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् ॥०३-१०३-५॥
सम्पूज्यमानस्त्रिदशैर्महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः। दिव्यैश्च पुष्पैरवकीर्यमाणो; महार्णवं निःसलिलं चकार ॥०३-१०३-६॥
दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः। प्रगृह्य दिव्यानि वरायुधानि; तान्दानवाञ्जघ्नुरदीनसत्त्वाः ॥०३-१०३-७॥
ते वध्यमानास्त्रिदशैर्महात्मभि; र्महाबलैर्वेगिभिरुन्नदद्भिः। न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम् ॥०३-१०३-८॥
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः। चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत ॥०३-१०३-९॥
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः। यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥०३-१०३-१०॥
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः। निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ॥०३-१०३-११॥
हतशेषास्ततः केचित्कालेया मनुजोत्तम। विदार्य वसुधां देवीं पातालतलमाश्रिताः ॥०३-१०३-१२॥
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम्। तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ॥०३-१०३-१३॥
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्। त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः ॥०३-१०३-१४॥
पूरयस्व महाबाहो समुद्रं लोकभावन। यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज ॥०३-१०३-१५॥
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः। जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् ॥ पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः ॥०३-१०३-१६॥
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः। विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥०३-१०३-१७॥
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम्। प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् ॥०३-१०३-१८॥
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम्। पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ॥ ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥०३-१०३-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.