03.104
लोमश उवाच॥
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः। गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ॥०३-१०४-१॥
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः। ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ॥०३-१०४-२॥
युधिष्ठिर उवाच॥
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने। कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥०३-१०४-३॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥०३-१०४-४॥
वैशम्पायन उवाच॥
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना। कथयामास माहात्म्यं सगरस्य महात्मनः ॥०३-१०४-५॥
लोमश उवाच॥
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः। रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ॥०३-१०४-६॥
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत। वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ॥०३-१०४-७॥
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते। वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥०३-१०४-८॥
स पुत्रकामो नृपतिस्तताप सुमहत्तपः। पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥०३-१०४-९॥
स तप्यमानः सुमहत्तपो योगसमन्वितः। आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥०३-१०४-१०॥
शङ्करं भवमीशानं शूलपानिं पिनाकिनम्। त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥०३-१०४-११॥
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः। प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ॥०३-१०४-१२॥
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम्। यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥०३-१०४-१३॥
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः। एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम ॥०३-१०४-१४॥
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव। एको वंशधरः शूर एकस्यां सम्भविष्यति ॥ एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ॥०३-१०४-१५॥
स चापि सगरो राजा जगाम स्वं निवेशनम्। पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ॥०३-१०४-१६॥
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे। वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः ॥०३-१०४-१७॥
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत। शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥०३-१०४-१८॥
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः। अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ॥०३-१०४-१९॥
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि। अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ॥०३-१०४-२०॥
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः। ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥०३-१०४-२१॥
महादेवेन दिष्टं ते पुत्रजन्म नराधिप। अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥०३-१०४-२२॥