Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.105
लोमश उवाच॥
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम। यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ ॥०३-१०५-१॥
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः। रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥०३-१०५-२॥
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः। बहुत्वाच्चावजानन्तः सर्वाँल्लोकान्सहामरान् ॥०३-१०५-३॥
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान्। सर्वाणि चैव भूतानि शूराः समरशालिनः ॥०३-१०५-४॥
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः। ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥०३-१०५-५॥
तानुवाच महाभागः सर्वलोकपितामहः। गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥०३-१०५-६॥
नातिदीर्घेण कालेन सागराणां क्षयो महान्। भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥०३-१०५-७॥
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर। पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥०३-१०५-८॥
ततः काले बहुतिथे व्यतीते भरतर्षभ। दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ॥ तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ॥०३-१०५-९॥
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम्। रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥०३-१०५-१०॥
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम्। आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् ॥ तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् ॥०३-१०५-११॥
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम्। अमार्गन्त महाराज सर्वं च पृथिवीतलम् ॥०३-१०५-१२॥
ततस्ते सागराः सर्वे समुपेत्य परस्परम्। नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥०३-१०५-१३॥
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः। ससमुद्रवनद्वीपा सनदीनदकन्दरा ॥ सपर्वतवनोद्देशा निखिलेन मही नृप ॥०३-१०५-१४॥
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव। न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥०३-१०५-१५॥
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः। उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥०३-१०५-१६॥
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम्। यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः ॥०३-१०५-१७॥
प्रतिगृह्य तु संदेशं ततस्ते सगरात्मजाः। भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥०३-१०५-१८॥
अथापश्यन्त ते वीराः पृथिवीमवदारिताम्। समासाद्य बिलं तच्च खनन्तः सगरात्मजाः ॥ कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा ॥०३-१०५-१९॥
स खन्यमानः सहितैः सागरैर्वरुणालयः। अगच्छत्परमामार्तिं दार्यमाणः समन्ततः ॥०३-१०५-२०॥
असुरोरगरक्षांसि सत्त्वानि विविधानि च। आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥०३-१०५-२१॥
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः। प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥०३-१०५-२२॥
एवं हि खनतां तेषां समुद्रं मकरालयम्। व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥०३-१०५-२३॥
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते। विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः ॥ अपश्यन्त हयं तत्र विचरन्तं महीतले ॥०३-१०५-२४॥
कपिलं च महात्मानं तेजोराशिमनुत्तमम्। तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् ॥०३-१०५-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.