Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.116
अकृतव्रण उवाच॥
स वेदाध्ययने युक्तो जमदग्निर्महातपाः। तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥०३-११६-१॥
स प्रसेनजितं राजन्नधिगम्य नराधिपम्। रेणुकां वरयामास स च तस्मै ददौ नृपः ॥०३-११६-२॥
रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः। आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥०३-११६-३॥
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः। सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः ॥०३-११६-४॥
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै। रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥०३-११६-५॥
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम्। ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥०३-११६-६॥
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्। ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥०३-११६-७॥
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना। प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥०३-११६-८॥
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्। धिक्षब्देन महातेजा गर्हयामास वीर्यवान् ॥०३-११६-९॥
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः। आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥०३-११६-१०॥
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्। न च ते जातसंमोहाः किञ्चिदूचुर्विचेतसः ॥०३-११६-११॥
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः। मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥०३-११६-१२॥
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा। तमुवाच महामन्युर्जमदग्निर्महातपाः ॥०३-११६-१३॥
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः। तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥०३-११६-१४॥
ततस्तस्य महाराज जमदग्नेर्महात्मनः। कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥०३-११६-१५॥
ममेदं वचनात्तात कृतं ते कर्म दुष्करम्। वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥०३-११६-१६॥
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै। पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥०३-११६-१७॥
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत। ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥०३-११६-१८॥
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो। अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥०३-११६-१९॥
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत्। स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥०३-११६-२०॥
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात्। जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥०३-११६-२१॥
आगताय च रामाय तदाचष्ट पिता स्वयम्। गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् ॥०३-११६-२२॥
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत्। तस्याथ युधि विक्रम्य भार्गवः परवीरहा ॥०३-११६-२३॥
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान्। सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः ॥०३-११६-२४॥
अर्जुनस्याथ दायादा रामेण कृतमन्यवः। आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥०३-११६-२५॥
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्। असकृद्राम रामेति विक्रोशन्तमनाथवत् ॥०३-११६-२६॥
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर। घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥०३-११६-२७॥
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते। समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥०३-११६-२८॥
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम्। अनर्हन्तं तथाभूतं विललाप सुदुःखितः ॥०३-११६-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.