Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.117
राम उवाच॥
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः। कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥०३-११७-१॥
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे। मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥०३-११७-२॥
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः। अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥०३-११७-३॥
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च। अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ॥०३-११७-४॥
अकृतव्रण उवाच॥
विलप्यैवं स करुणं बहु नानाविधं नृप। प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥०३-११७-५॥
ददाह पितरं चाग्नौ रामः परपुरञ्जयः। प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥०३-११७-६॥
सङ्क्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान्। जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥०३-११७-७॥
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ। तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः ॥०३-११७-८॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः। समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥०३-११७-९॥
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः। साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥०३-११७-१०॥
ततो यज्ञेन महता जामदग्न्यः प्रतापवान्। तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ ॥०३-११७-११॥
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने। दशव्यामायतां कृत्वा नवोत्सेधां विशां पते ॥०३-११७-१२॥
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा। व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः ॥०३-११७-१३॥
स प्रदाय महीं तस्मै कश्यपाय महात्मने। अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥०३-११७-१४॥
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः। पृथिवी चापि विजिता रामेणामिततेजसा ॥०३-११७-१५॥
वैशम्पायन उवाच॥
ततश्चतुर्दशीं रामः समयेन महामनाः। दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् ॥०३-११७-१६॥
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः। द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥०३-११७-१७॥
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः। महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥०३-११७-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.