Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.140
लोमश उवाच॥
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत। समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥०३-१४०-१॥
एषा गङ्गा सप्तविधा राजते भरतर्षभ। स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते ॥०३-१४०-२॥
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत। समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥०३-१४०-३॥
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्। यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् ॥०३-१४०-४॥
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः। तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥०३-१४०-५॥
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते। यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥०३-१४०-६॥
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते। स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् ॥०३-१४०-७॥
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः। दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥०३-१४०-८॥
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः। तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥०३-१४०-९॥
कैलासः पर्वतो राजन्षड्योजनशतान्युत। यत्र देवाः समायान्ति विशाला यत्र भारत ॥०३-१४०-१०॥
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः। नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥०३-१४०-११॥
तान्विगाहस्व पार्थाद्य तपसा च दमेन च। रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥०३-१४०-१२॥
स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः। गङ्गा च यमुना चैव पर्वतश्च दधातु ते ॥०३-१४०-१३॥
इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे। गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम् ॥ भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य ॥०३-१४०-१४॥
युधिष्ठिर उवाच॥
अपूर्वोऽयं सम्भ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम्। देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम् ॥०३-१४०-१५॥
वैशम्पायन उवाच॥
ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन। शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु ॥०३-१४०-१६॥
ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे। उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ ॥०३-१४०-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.