03.141
युधिष्ठिर उवाच॥
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च। अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥०३-१४१-१॥
संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात्। ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ॥०३-१४१-२॥
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति। बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥०३-१४१-३॥
अथ वा सहदेवेन धौम्येन च सहाभिभो। सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥०३-१४१-४॥
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि। सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥०३-१४१-५॥
त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः। अहं च नकुलश्चैव लोमशश्च महातपाः ॥०३-१४१-६॥
ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः। वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥०३-१४१-७॥
भीम उवाच॥
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत। व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥०३-१४१-८॥
तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः। किं पुनः सहदेवं च मां च कृष्णां च भारत ॥०३-१४१-९॥
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः। सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ॥०३-१४१-१०॥
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्। शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ॥०३-१४१-११॥
इयं चापि महाभागा राजपुत्री यतव्रता। त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥०३-१४१-१२॥
तथैव सहदेवोऽयं सततं त्वामनुव्रतः। न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥०३-१४१-१३॥
अपि चात्र महाराज सव्यसाचिदिदृक्षया। सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥०३-१४१-१४॥
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः। पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥०३-१४१-१५॥
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति। इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥०३-१४१-१६॥
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ। दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः ॥०३-१४१-१७॥
युधिष्ठिर उवाच॥
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्। यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ॥०३-१४१-१८॥
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते। बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ॥०३-१४१-१९॥
यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया। मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥०३-१४१-२०॥
वैशम्पायन उवाच॥
ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा। गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ॥०३-१४१-२१॥
लोमश उवाच॥
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः। तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥०३-१४१-२२॥
नकुलः सहदेवश्च भीमसेनश्च पार्थिव। अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥०३-१४१-२३॥
वैशम्पायन उवाच॥
एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत्। ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥०३-१४१-२४॥
किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम्। हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् ॥०३-१४१-२५॥
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत। विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ॥०३-१४१-२६॥
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः। प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ॥०३-१४१-२७॥
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा। सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप ॥०३-१४१-२८॥
राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः। पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ॥०३-१४१-२९॥
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः। तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् ॥०३-१४१-३०॥