03.151
वैशम्पायन उवाच॥
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम्। कैलासशिखरे रम्ये ददर्श शुभकानने ॥०३-१५१-१॥
कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे। सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् ॥०३-१५१-२॥
हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम्। पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥०३-१५१-३॥
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्। ददर्श विमलं तोयं शिवं बहु च पाण्डवः ॥०३-१५१-४॥
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम्। जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥०३-१५१-५॥
वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः। हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥०३-१५१-६॥
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः। गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥०३-१५१-७॥
सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा। राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ॥०३-१५१-८॥
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः। बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत्सरः ॥०३-१५१-९॥
तच्च क्रोधवशा नाम राक्षसा राजशासनात्। रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥०३-१५१-१०॥
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्। रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥०३-१५१-११॥
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्। पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥०३-१५१-१२॥
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः। यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ ॥०३-१५१-१३॥
ततः सर्वे महाबाहुं समासाद्य वृकोदरम्। तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥०३-१५१-१४॥
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे। यदर्थमसि सम्प्राप्तस्तदाचक्ष्व महाद्युते ॥०३-१५१-१५॥