03.152
भीम उवाच॥
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः। विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥०३-१५२-१॥
अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम्। अनिलोढमितो नूनं सा बहूनि परीप्सति ॥०३-१५२-२॥
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्। पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥०३-१५२-३॥
राक्षसा ऊचुः॥
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ। नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥०३-१५२-४॥
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर। आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ॥ गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥०३-१५२-५॥
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्। विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥०३-१५२-६॥
तमनादृत्य पद्मानि जिहीर्षसि बलादितः। धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥०३-१५२-७॥
भीम उवाच॥
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके। दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥०३-१५२-८॥
न हि याचन्ति राजान एष धर्मः सनातनः। न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन ॥०३-१५२-९॥
इयं च नलिनी रम्या जाता पर्वतनिर्झरे। नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥०३-१५२-१०॥
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च। एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति ॥०३-१५२-११॥
वैशम्पायन उवाच॥
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत। ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ॥ मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥०३-१५२-१२॥
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः। व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥०३-१५२-१३॥
गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम्। क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥०३-१५२-१४॥
ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम्। प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥०३-१५२-१५॥
ते तं तदा तोमरपट्टिशाद्यै; र्व्याविध्य शस्त्रैः सहसाभिपेतुः। जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः ॥०३-१५२-१६॥
वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता। सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः ॥०३-१५२-१७॥
तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम्। यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे ॥०३-१५२-१८॥
ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव। अशक्नुवन्तः सहिताः समन्ता; द्धतप्रवीराः सहसा निवृत्ताः ॥०३-१५२-१९॥
विदीर्यमाणास्तत एव तूर्ण; माकाशमास्थाय विमूढसञ्ज्ञाः। कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥०३-१५२-२०॥
स शक्रवद्दानवदैत्यसङ्घा; न्विक्रम्य जित्वा च रणेऽरिसङ्घान्। विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि ॥०३-१५२-२१॥
ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः। उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति ॥०३-१५२-२२॥
ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः। भीमस्य वीर्यं च बलं च सङ्ख्ये; यथावदाचख्युरतीव दीनाः ॥०३-१५२-२३॥
तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच। गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत् ॥०३-१५२-२४॥
ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः। भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम् ॥०३-१५२-२५॥