03.209
मार्कण्डेय उवाच॥
बृहस्पतेश्चान्द्रमसी भार्याभूद्या यशस्विनी। अग्नीन्साजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥०३-२०९-१॥
आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते। सोऽग्निर्बृहस्पतेः पुत्रः शंयुर्नाम महाप्रभः ॥०३-२०९-२॥
चातुर्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः। दीप्तो ज्वालैरनेकाभैरग्निरेकोऽथ वीर्यवान् ॥०३-२०९-३॥
शंयोरप्रतिमा भार्या सत्या सत्या च धर्मजा। अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥०३-२०९-४॥
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे। अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥०३-२०९-५॥
पौर्णमास्येषु सर्वेषु हविषाज्यं स्रुवोद्यतम्। भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः ॥०३-२०९-६॥
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः। भरतस्तु सुतस्तस्य भरत्येका च पुत्रिका ॥०३-२०९-७॥
भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः। महानत्यर्थमहितस्तथा भरतसत्तम ॥०३-२०९-८॥
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः। प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥०३-२०९-९॥
हविषा यो द्वितीयेन सोमेन सह युज्यते। रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥०३-२०९-१०॥
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत्। आग्नेयमानयन्नित्यमाह्वानेष्वेष कथ्यते ॥०३-२०९-११॥
यस्तु न च्यवते नित्यं यशसा वर्चसा श्रिया। अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥०३-२०९-१२॥
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन्। विपापोऽग्निः सुतस्तस्य सत्यः समयकर्मसु ॥०३-२०९-१३॥
आक्रोशतां हि भूतानां यः करोति हि निष्कृतिम्। अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥०३-२०९-१४॥
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः। तस्य पुत्रः स्वनो नाम पावकः स रुजस्करः ॥०३-२०९-१५॥
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति। तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥०३-२०९-१६॥
अन्तराग्निः श्रितो यो हि भुक्तं पचति देहिनाम्। स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ॥०३-२०९-१७॥
ब्रह्मचारी यतात्मा च सततं विपुलव्रतः। ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥०३-२०९-१८॥
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया। तस्मिन्सर्वाणि कर्माणि क्रियन्ते कर्मकर्तृभिः ॥०३-२०९-१९॥
वडवामुखः पिबत्यम्भो योऽसौ परमदारुणः। ऊर्ध्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु सः ॥०३-२०९-२०॥
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते। ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥०३-२०९-२१॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः। क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥ स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति ॥०३-२०९-२२॥
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन। अतुल्यत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥०३-२०९-२३॥
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः। समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥०३-२०९-२४॥
उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः। महावाचं त्वजनयत्सकामाश्वं हि यं विदुः ॥०३-२०९-२५॥