Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.019
द्रौपद्युवाच॥
अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि। शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥०४-१९-१॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप। आसे कालमुपासीना सर्वं दुःखं किलार्तवत् ॥०४-१९-२॥
अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ। इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥०४-१९-३॥
य एव हेतुर्भवति पुरुषस्य जयावहः। पराजये च हेतुः स इति च प्रतिपालये ॥०४-१९-४॥
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे। पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥०४-१९-५॥
न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम्। इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥०४-१९-६॥
स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति। इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः ॥०४-१९-७॥
दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते। दैवस्य चागमे यत्नस्तेन कार्यो विजानता ॥०४-१९-८॥
यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम्। पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते ॥०४-१९-९॥
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च। इमामवस्थां सम्प्राप्ता का मदन्या जिजीविषेत् ॥०४-१९-१०॥
कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत। पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम ॥०४-१९-११॥
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन्। एवं समुदिता नारी का न्वन्या दुःखिता भवेत् ॥०४-१९-१२॥
नूनं हि बालया धातुर्मया वै विप्रियं कृतम्। यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ ॥०४-१९-१३॥
वर्णावकाशमपि मे पश्य पाण्डव यादृशम्। यादृशो मे न तत्रासीद्दुःखे परमके तदा ॥०४-१९-१४॥
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा। साहं दासत्वमापन्ना न शान्तिमवशा लभे ॥०४-१९-१५॥
नादैविकमिदं मन्ये यत्र पार्थो धनञ्जयः। भीमधन्वा महाबाहुरास्ते शान्त इवानलः ॥०४-१९-१६॥
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः। विनिपातमिमं मन्ये युष्माकमविचिन्तितम् ॥०४-१९-१७॥
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा। सा प्रेक्षे मुखमन्यासामवराणां वरा सती ॥०४-१९-१८॥
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा। युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम् ॥०४-१९-१९॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी। आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी ॥०४-१९-२०॥
यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः। साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् ॥०४-१९-२१॥
या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः। अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम् ॥ पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा ॥०४-१९-२२॥
वैशम्पायन उवाच॥
इत्यस्य दर्शयामास किणबद्धौ करावुभौ। द्रौपद्युवाच॥
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन। साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी ॥०४-१९-२४॥
किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा। नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते ॥०४-१९-२५॥
वैशम्पायन उवाच॥
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी। रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती ॥०४-१९-२६॥
सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः। हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत् ॥०४-१९-२७॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा। अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव ॥०४-१९-२८॥
ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः। मुखमानीय वेपन्त्या रुरोद परवीरहा ॥०४-१९-२९॥
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्। ततः परमदुःखार्त इदं वचनमब्रवीत् ॥०४-१९-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.