05.005
वासुदेव उवाच॥
उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे। अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः ॥५-५-१॥
एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम्। अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥५-५-२॥
किं तु सम्बन्धकं तुल्यमस्माकं कुरुपाण्डुषु। यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥५-५-३॥
ते विवाहार्थमानीता वयं सर्वे यथा भवान्। कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥५-५-४॥
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च। शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥५-५-५॥
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते। आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ॥५-५-६॥
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः। सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥५-५-७॥
यदि तावच्छमं कुर्यान्न्यायेन कुरुपुङ्गवः। न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥५-५-८॥
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः। अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः ॥५-५-९॥
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः। निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥५-५-१०॥
वैशम्पायन उवाच॥
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः। गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥५-५-११॥
द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः। चक्रुः साङ्ग्रामिकं सर्वं विराटश्च महीपतिः ॥५-५-१२॥
ततः सम्प्रेषयामास विराटः सह बान्धवैः। सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥५-५-१३॥
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते। समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः ॥५-५-१४॥
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम्। धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् ॥५-५-१५॥
समाकुला मही राजन्कुरुपाण्डवकारणात्। तदा समभवत्कृत्स्ना सम्प्रयाणे महीक्षिताम् ॥५-५-१६॥
बलानि तेषां वीराणामागच्छन्ति ततस्ततः। चालयन्तीव गां देवीं सपर्वतवनामिमाम् ॥५-५-१७॥
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्। कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा ॥५-५-१८॥