Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.047
धृतराष्ट्र उवाच॥
पृच्छामि त्वां सञ्जय राजमध्ये; किमब्रवीद्वाक्यमदीनसत्त्वः। धनञ्जयस्तात युधां प्रणेता; दुरात्मनां जीवितच्छिन्महात्मा ॥५-४७-१॥
सञ्जय उवाच॥
दुर्योधनो वाचमिमां शृणोतु; यदब्रवीदर्जुनो योत्स्यमानः। युधिष्ठिरस्यानुमते महात्मा; धनञ्जयः शृण्वतः केशवस्य ॥५-४७-२॥
अन्वत्रस्तो बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः। अवोचन्मां योत्स्यमानः किरीटी; मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥५-४७-३॥
ये वै राजानः पाण्डवायोधनाय; समानीताः शृण्वतां चापि तेषाम्। यथा समग्रं वचनं मयोक्तं; सहामात्यं श्रावयेथा नृपं तम् ॥५-४७-४॥
यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे। तथाशृण्वन्पाण्डवाः सृञ्जयाश्च; किरीटिना वाचमुक्तां समर्थाम् ॥५-४७-५॥
इत्यब्रवीदर्जुनो योत्स्यमानो; गाण्डीवधन्वा लोहितपद्मनेत्रः। न चेद्राज्यं मुञ्चति धार्तराष्ट्रो; युधिष्ठिरस्याजमीढस्य राज्ञः ॥ अस्ति नूनं कर्म कृतं पुरस्ता; दनिर्विष्टं पापकं धार्तराष्ट्रैः ॥५-४७-६॥
येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव। शैनेयेन ध्रुवमात्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च ॥ युधिष्ठिरेणेन्द्रकल्पेन चैव; योऽपध्यानान्निर्दहेद्गां दिवं च ॥५-४७-७॥
तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो; निर्वृत्तोऽर्थः सकलः पाण्डवानाम्। मा तत्कार्षीः पाण्डवार्थाय हेतो; रुपैहि युद्धं यदि मन्यसे त्वम् ॥५-४७-८॥
यां तां वने दुःखशय्यामुवास; प्रव्राजितः पाण्डवो धर्मचारी। आशिष्यते दुःखतरामनर्था; मन्त्यां शय्यां धार्तराष्ट्रः परासुः ॥५-४७-९॥
ह्रिया ज्ञानेन तपसा दमेन; क्रोधेनाथो धर्मगुप्त्या धनेन। अन्यायवृत्तः कुरुपाण्डवेया; नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥५-४७-१०॥
मायोपधः प्रणिधानार्जवाभ्यां; तपोदमाभ्यां धर्मगुप्त्या बलेन। सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन; तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥५-४७-११॥
यदा ज्येष्ठः पाण्डवः संशितात्मा; क्रोधं यत्तं वर्षपूगान्सुघोरम्। अवस्रष्टा कुरुषूद्वृत्तचेता; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१२॥
कृष्णवर्त्मेव ज्वलितः समिद्धो; यथा दहेत्कक्षमग्निर्निदाघे। एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ॥५-४७-१३॥
यदा द्रष्टा भीमसेनं रणस्थं; गदाहस्तं क्रोधविषं वमन्तम्। दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१४॥
महासिंहो गाव इव प्रविश्य; गदापाणिर्धार्तराष्ट्रानुपेत्य। यदा भीमो भीमरूपो निहन्ता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१५॥
महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी। सकृद्रथेन प्रतियाद्रथौघा; न्पदातिसङ्घान्गदयाभिनिघ्नन् ॥५-४७-१६॥
सैन्याननेकांस्तरसा विमृद्न; न्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम्। छिन्दन्वनं परशुनेव शूर; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१७॥
तृणप्रायं ज्वलनेनेव दग्धं; ग्रामं यथा धार्तराष्ट्रः समीक्ष्य। पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं स्वं बलौघम् ॥५-४७-१८॥
हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं प्रायशोऽधृष्टयोधम्। शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-१९॥
उपासङ्गादुद्धरन्दक्षिणेन; परःशतान्नकुलश्चित्रयोधी। यदा रथाग्र्यो रथिनः प्रचेता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२०॥
सुखोचितो दुःखशय्यां वनेषु; दीर्घं कालं नकुलो यामशेत। आशीविषः क्रुद्ध इव श्वसन्भृशं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२१॥
त्यक्तात्मानः पार्थिवायोधनाय; समादिष्टा धर्मराजेन वीराः। रथैः शुभ्रैः सैन्यमभिद्रवन्तो; दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥५-४७-२२॥
शिशून्कृतास्त्रानशिशुप्रकाशा; न्यदा द्रष्टा कौरवः पञ्च शूरान्। त्यक्त्वा प्राणान्केकयानाद्रवन्त; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२३॥
यदा गतोद्वाहमकूजनाक्षं; सुवर्णतारं रथमाततायी। दान्तैर्युक्तं सहदेवोऽधिरूढः; शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥५-४७-२४॥
महाभये सम्प्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम्। सर्वां दिशं सम्पतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२५॥
ह्रीनिषेधो निपुणः सत्यवादी; महाबलः सर्वधर्मोपपन्नः। गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी; क्षेप्ता जनान्सहदेवस्तरस्वी ॥५-४७-२६॥
यदा द्रष्टा द्रौपदेयान्महेषू; ञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान्। आशीविषान्घोरविषानिवायत; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२७॥
यदाभिमन्युः परवीरघाती; शरैः परान्मेघ इवाभिवर्षन्। विगाहिता कृष्णसमः कृतास्त्र; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२८॥
यदा द्रष्टा बालमबालवीर्यं; द्विषच्चमूं मृत्युमिवापतन्तम्। सौभद्रमिन्द्रप्रतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-२९॥
प्रभद्रकाः शीघ्रतरा युवानो; विशारदाः सिंहसमानवीर्याः। यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३०॥
वृद्धौ विराटद्रुपदौ महारथौ; पृथक्चमूभ्यामभिवर्तमानौ। यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३१॥
यदा कृतास्त्रो द्रुपदः प्रचिन्व; ञ्शिरांसि यूनां समरे रथस्थः। क्रुद्धः शरैश्छेत्स्यति चापमुक्तै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३२॥
यदा विराटः परवीरघाती; मर्मान्तरे शत्रुचमूं प्रवेष्टा। मत्स्यैः सार्धमनृशंसरूपै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३३॥
ज्येष्ठं मात्स्यानामनृशंसरूपं; विराटपुत्रं रथिनं पुरस्तात्। यदा द्रष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३४॥
रणे हते कौरवाणां प्रवीरे; शिखण्डिना सत्तमे शन्तनूजे। न जातु नः शत्रवो धारयेयु; रसंशयं सत्यमेतद्ब्रवीमि ॥५-४७-३५॥
यदा शिखण्डी रथिनः प्रचिन्व; न्भीष्मं रथेनाभियाता वरूथी। दिव्यैर्हयैरवमृद्नन्रथौघां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३६॥
यदा द्रष्टा सृञ्जयानामनीके; धृष्टद्युम्नं प्रमुखे रोचमानम्। अस्त्रं यस्मै गुह्यमुवाच धीमा; न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥५-४७-३७॥
यदा स सेनापतिरप्रमेयः; पराभवन्निषुभिर्धार्तराष्ट्रान्। द्रोणं रणे शत्रुसहोऽभियाता; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-३८॥
ह्रीमान्मनीषी बलवान्मनस्वी; स लक्ष्मीवान्सोमकानां प्रबर्हः। न जातु तं शत्रवोऽन्ये सहेर; न्येषां स स्यादग्रणीर्वृष्णिसिंहः ॥५-४७-३९॥
ब्रूयाच्च मा प्रवृणीष्वेति लोके; युद्धेऽद्वितीयं सचिवं रथस्थम्। शिनेर्नप्तारं प्रवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम् ॥५-४७-४०॥
यदा शिनीनामधिपो मयोक्तः; शरैः परान्मेघ इव प्रवर्षन्। प्रच्छादयिष्यञ्शरजालेन योधां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-४१॥
यदा धृतिं कुरुते योत्स्यमानः; स दीर्घबाहुर्दृढधन्वा महात्मा। सिंहस्येव गन्धमाघ्राय गावः; संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ॥५-४७-४२॥
स दीर्घबाहुर्दृढधन्वा महात्मा; भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्। अस्त्रे कृती निपुणः क्षिप्रहस्तो; दिवि स्थितः सूर्य इवाभिभाति ॥५-४७-४३॥
चित्रः सूक्ष्मः सुकृतो यादवस्य; अस्त्रे योगो वृष्णिसिंहस्य भूयान्। यथाविधं योगमाहुः प्रशस्तं; सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥५-४७-४४॥
हिरण्मयं श्वेतहयैश्चतुर्भि; र्यदा युक्तं स्यन्दनं माधवस्य। द्रष्टा युद्धे सात्यकेर्वै सुयोधन; स्तदा तप्स्यत्यकृतात्मा स मन्दः ॥५-४७-४५॥
यदा रथं हेममणिप्रकाशं; श्वेताश्वयुक्तं वानरकेतुमुग्रम्। द्रष्टा रणे संयतं केशवेन; तदा तप्स्यत्यकृतात्मा स मन्दः ॥५-४७-४६॥
यदा मौर्व्यास्तलनिष्पेषमुग्रं; महाशब्दं वज्रनिष्पेषतुल्यम्। विधूयमानस्य महारणे मया; गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ॥५-४७-४७॥
तदा मूढो धृतराष्ट्रस्य पुत्र; स्तप्ता युद्धे दुर्मतिर्दुःसहायः। दृष्ट्वा सैन्यं बाणवर्षान्धकारं; प्रभज्यन्तं गोकुलवद्रणाग्रे ॥५-४७-४८॥
बलाहकादुच्चरन्तीव विद्यु; त्सहस्रघ्नी द्विषतां सङ्गमेषु। अस्थिच्छिदो मर्मभिदो वमेच्छरां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-४९॥
यदा द्रष्टा ज्यामुखाद्बाणसङ्घा; न्गाण्डीवमुक्तान्पततः शिताग्रान्। नागान्हयान्वर्मिणश्चाददानां; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५०॥
यदा मन्दः परबाणान्विमुक्ता; न्ममेषुभिर्ह्रियमाणान्प्रतीपम्। तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रै; स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५१॥
यदा विपाठा मद्भुजविप्रमुक्ता; द्विजाः फलानीव महीरुहाग्रात्। प्रच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५२॥
यदा द्रष्टा पततः स्यन्दनेभ्यो; महागजेभ्योऽश्वगतांश्च योधान्। शरैर्हतान्पातितांश्चैव रङ्गे; तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥५-४७-५३॥
पदातिसङ्घान्रथसङ्घान्समन्ताद्व्यात्ताननः काल इवाततेषुः। प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥५-४७-५४॥
सर्वा दिशः सम्पतता रथेन; रजोध्वस्तं गाण्डिवेनापकृत्तम्। यदा द्रष्टा स्वबलं सम्प्रमूढं; तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥५-४७-५५॥
कांदिग्भूतं छिन्नगात्रं विसञ्ज्ञं; दुर्योधनो द्रक्ष्यति सर्वसैन्यम्। हताश्ववीराग्र्यनरेन्द्रनागं; पिपासितं श्रान्तपत्रं भयार्तम् ॥५-४७-५६॥
आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थिकपालसङ्घम्। प्रजापतेः कर्म यथार्धनिष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ॥५-४७-५७॥
यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश्च। तूणावक्षय्यौ देवदत्तं च मां च; द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ॥५-४७-५८॥
उद्वर्तयन्दस्युसङ्घान्समेता; न्प्रवर्तयन्युगमन्यद्युगान्ते। यदा धक्ष्याम्यग्निवत्कौरवेयां; स्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥५-४७-५९॥
सहभ्राता सहपुत्रः ससैन्यो; भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः। दर्पस्यान्ते विहिते वेपमानः; पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥५-४७-६०॥
पूर्वाह्णे मां कृतजप्यं कदा चि; द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्। कर्तव्यं ते दुष्करं कर्म पार्थ; योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥५-४७-६१॥
इन्द्रो वा ते हरिवान्वज्रहस्तः; पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्। सुग्रीवयुक्तेन रथेन वा ते; पश्चात्कृष्णो रक्षतु वासुदेवः ॥५-४७-६२॥
वव्रे चाहं वज्रहस्तान्महेन्द्रा; दस्मिन्युद्धे वासुदेवं सहायम्। स मे लब्धो दस्युवधाय कृष्णो; मन्ये चैतद्विहितं दैवतैर्मे ॥५-४७-६३॥
अयुध्यमानो मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत्। ध्रुवं सर्वान्सोऽभ्यतीयादमित्रा; न्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥५-४७-६४॥
स बाहुभ्यां सागरमुत्तितीर्षे; न्महोदधिं सलिलस्याप्रमेयम्। तेजस्विनं कृष्णमत्यन्तशूरं; युद्धेन यो वासुदेवं जिगीषेत् ॥५-४७-६५॥
गिरिं य इच्छेत तलेन भेत्तुं; शिलोच्चयं श्वेतमतिप्रमाणम्। तस्यैव पाणिः सनखो विशीर्ये; न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥५-४७-६६॥
अग्निं समिद्धं शमयेद्भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत। हरेद्देवानाममृतं प्रसह्य; युद्धेन यो वासुदेवं जिगीषेत् ॥५-४७-६७॥
यो रुक्मिणीमेकरथेन भोज्या; मुत्साद्य राज्ञां विषयं प्रसह्य। उवाह भार्यां यशसा ज्वलन्तीं; यस्यां जज्ञे रौक्मिणेयो महात्मा ॥५-४७-६८॥
अयं गान्धारांस्तरसा सम्प्रमथ्य; जित्वा पुत्रान्नग्नजितः समग्रान्। बद्धं मुमोच विनदन्तं प्रसह्य; सुदर्शनीयं देवतानां ललामम् ॥५-४७-६९॥
अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान्दन्तकूरे ममर्द। अनेन दग्धा वर्षपूगान्विनाथा; वाराणसी नगरी सम्बभूव ॥५-४७-७०॥
यं स्म युद्धे मन्यतेऽन्यैरजेय; मेकलव्यं नाम निषादराजम्। वेगेनेव शैलमभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः ॥५-४७-७१॥
तथोग्रसेनस्य सुतं प्रदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम्। अपातयद्बलदेवद्वितीयो; हत्वा ददौ चोग्रसेनाय राज्यम् ॥५-४७-७२॥
अयं सौभं योधयामास खस्थं; विभीषणं मायया शाल्वराजम्। सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं; दोर्भ्यां क एनं विषहेत मर्त्यः ॥५-४७-७३॥
प्राग्ज्योतिषं नाम बभूव दुर्गं; पुरं घोरमसुराणामसह्यम्। महाबलो नरकस्तत्र भौमो; जहारादित्या मणिकुण्डले शुभे ॥५-४७-७४॥
न तं देवाः सह शक्रेण सेहिरे; समागता आहरणाय भीताः। दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रमवारणीयम् ॥५-४७-७५॥
जानन्तोऽस्य प्रकृतिं केशवस्य; न्ययोजयन्दस्युवधाय कृष्णम्। स तत्कर्म प्रतिशुश्राव दुष्कर; मैश्वर्यवान्सिद्धिषु वासुदेवः ॥५-४७-७६॥
निर्मोचने षट्सहस्राणि हत्वा; सञ्छिद्य पाशान्सहसा क्षुरान्तान्। मुरं हत्वा विनिहत्यौघराक्षसं; निर्मोचनं चापि जगाम वीरः ॥५-४७-७७॥
तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णोः। शेते स कृष्णेन हतः परासु; र्वातेनेव मथितः कर्णिकारः ॥५-४७-७८॥
आहृत्य कृष्णो मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च। श्रिया वृतो यशसा चैव धीमा; न्प्रत्याजगामाप्रतिमप्रभावः ॥५-४७-७९॥
तस्मै वरानददंस्तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत्। श्रमश्च ते युध्यमानस्य न स्या; दाकाशे वा अप्सु चैव क्रमः स्यात् ॥५-४७-८०॥
शस्त्राणि गात्रे च न ते क्रमेर; न्नित्येव कृष्णश्च ततः कृतार्थः। एवंरूपे वासुदेवेऽप्रमेये; महाबले गुणसम्पत्सदैव ॥५-४७-८१॥
तमसह्यं विष्णुमनन्तवीर्य; माशंसते धार्तराष्ट्रो बलेन। यदा ह्येनं तर्कयते दुरात्मा; तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥५-४७-८२॥
पर्यागतं मम कृष्णस्य चैव; यो मन्यते कलहं सम्प्रयुज्य। शक्यं हर्तुं पाण्डवानां ममत्वं; तद्वेदिता संयुगं तत्र गत्वा ॥५-४७-८३॥
नमस्कृत्वा शान्तनवाय राज्ञे; द्रोणायाथो सहपुत्राय चैव। शारद्वतायाप्रतिद्वन्द्विने च; योत्स्याम्यहं राज्यमभीप्समानः ॥५-४७-८४॥
धर्मेणास्त्रं नियतं तस्य मन्ये; यो योत्स्यते पाण्डवैर्धर्मचारी। मिथ्याग्लहे निर्जिता वै नृशंसैः; संवत्सरान्द्वादश पाण्डुपुत्राः ॥५-४७-८५॥
अवाप्य कृच्छ्रं विहितं ह्यरण्ये; दीर्घं कालं चैकमज्ञातचर्याम्। ते ह्यकस्माज्जीवितं पाण्डवानां; न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ॥५-४७-८६॥
ते चेदस्मान्युध्यमानाञ्जयेयु; र्देवैरपीन्द्रप्रमुखैः सहायैः। धर्मादधर्मश्चरितो गरीया; निति ध्रुवं नास्ति कृतं न साधु ॥५-४७-८७॥
न चेदिमं पुरुषं कर्मबद्धं; न चेदस्मान्मन्यतेऽसौ विशिष्टान्। आशंसेऽहं वासुदेवद्वितीयो; दुर्योधनं सानुबन्धं निहन्तुम् ॥५-४७-८८॥
न चेदिदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य स्वकर्म। इदं च तच्चापि समीक्ष्य नूनं; पराजयो धार्तराष्ट्रस्य साधुः ॥५-४७-८९॥
प्रत्यक्षं वः कुरवो यद्ब्रवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति। अन्यत्र युद्धात्कुरवः परीप्स; न्न युध्यतां शेष इहास्ति कश्चित् ॥५-४७-९०॥
हत्वा त्वहं धार्तराष्ट्रान्सकर्णा; न्राज्यं कुरूणामवजेता समग्रम्। यद्वः कार्यं तत्कुरुध्वं यथास्व; मिष्टान्दारानात्मजांश्चोपभुङ्क्त ॥५-४७-९१॥
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः। सांवत्सरा ज्योतिषि चापि युक्ता; नक्षत्रयोगेषु च निश्चयज्ञाः ॥५-४७-९२॥
उच्चावचं दैवयुक्तं रहस्यं; दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः। क्षयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च ॥५-४७-९३॥
तथा हि नो मन्यतेऽजातशत्रुः; संसिद्धार्थो द्विषतां निग्रहाय। जनार्दनश्चाप्यपरोक्षविद्यो; न संशयं पश्यति वृष्णिसिंहः ॥५-४७-९४॥
अहं च जानामि भविष्यरूपं; पश्यामि बुद्ध्या स्वयमप्रमत्तः। दृष्टिश्च मे न व्यथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति ॥५-४७-९५॥
अनालब्धं जृम्भति गाण्डिवं धनु; रनालब्धा कम्पति मे धनुर्ज्या। बाणाश्च मे तूणमुखाद्विसृज्य; मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥५-४७-९६॥
सैक्यः कोशान्निःसरति प्रसन्नो; हित्वेव जीर्णामुरगस्त्वचं स्वाम्। ध्वजे वाचो रौद्ररूपा वदन्ति; कदा रथो योक्ष्यते ते किरीटिन् ॥५-४७-९७॥
गोमायुसङ्घाश्च वदन्ति रात्रौ; रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्। मृगाः शृगालाः शितिकण्ठाश्च काका; गृध्रा बडाश्चैव तरक्षवश्च ॥५-४७-९८॥
सुपर्णपाताश्च पतन्ति पश्चा; द्दृष्ट्वा रथं श्वेतहयप्रयुक्तम्। अहं ह्येकः पार्थिवान्सर्वयोधा; ञ्शरान्वर्षन्मृत्युलोकं नयेयम् ॥५-४७-९९॥
समाददानः पृथगस्त्रमार्गा; न्यथाग्निरिद्धो गहनं निदाघे। स्थूणाकर्णं पाशुपतं च घोरं; तथा ब्रह्मास्त्रं यच्च शक्रो विवेद ॥५-४७-१००॥
वधे धृतो वेगवतः प्रमुञ्च; न्नाहं प्रजाः किञ्चिदिवावशिष्ये। शान्तिं लप्स्ये परमो ह्येष भावः; स्थिरो मम ब्रूहि गावल्गणे तान् ॥५-४७-१०१॥
नित्यं पुनः सचिवैर्यैरवोच; द्देवानपीन्द्रप्रमुखान्सहायान्। तैर्मन्यते कलहं सम्प्रयुज्य; स धार्तराष्ट्रः पश्यत मोहमस्य ॥५-४७-१०२॥
वृद्धो भीष्मः शान्तनवः कृपश्च; द्रोणः सपुत्रो विदुरश्च धीमान्। एते सर्वे यद्वदन्ते तदस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे ॥५-४७-१०३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.