Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.052
धृतराष्ट्र उवाच॥
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः। तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥५-५२-१॥
त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम। पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥५-५२-२॥
यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली। स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः ॥५-५२-३॥
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान्। शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥५-५२-४॥
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः। मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥५-५२-५॥
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात्। यमाभ्यां भीमसेनाच्च भयं मे तात जायते ॥५-५२-६॥
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा। मम सेनां हनिष्यन्ति ततः क्रोशामि सञ्जय ॥५-५२-७॥
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी। मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥५-५२-८॥
मित्रामात्यैः सुसम्पन्नः सम्पन्नो योज्ययोजकैः। भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः ॥५-५२-९॥
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः। अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ॥५-५२-१०॥
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः। तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ॥५-५२-११॥
तपन्तमिव को मन्दः पतिष्यति पतङ्गवत्। पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः ॥५-५२-१२॥
तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥५-५२-१३॥
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत। युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥५-५२-१४॥
एषा मे परमा शान्तिर्यया शाम्यति मे मनः। यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥५-५२-१५॥
न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः। जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥५-५२-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.