Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.056
धृतराष्ट्र उवाच॥
कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान्। ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥५-५६-१॥
सञ्जय उवाच॥
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्। चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥५-५६-२॥
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ। महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥५-५६-३॥
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः। सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥५-५६-४॥
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः। उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥५-५६-५॥
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च। सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ॥५-५६-६॥
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा। अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ॥५-५६-७॥
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्। पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥५-५६-८॥
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः। अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥५-५६-९॥
एतानेतावतस्तत्र यानपश्यं समागतान्। ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥५-५६-१०॥
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ॥५-५६-११॥
भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः। तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ॥५-५६-१२॥
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली। तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥५-५६-१३॥
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च। प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥५-५६-१४॥
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः। अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥५-५६-१५॥
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः। सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥५-५६-१६॥
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः। केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥५-५६-१७॥
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः। त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ॥५-५६-१८॥
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च। सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥५-५६-१९॥
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः। धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥५-५६-२०॥
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति। भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥५-५६-२१॥
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि। स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥५-५६-२२॥
उलूकं चापि कैतव्यं ये च सारस्वता गणाः। नकुलः कल्पयामास भागं माद्रवतीसुतः ॥५-५६-२३॥
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे। समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥५-५६-२४॥
एवमेषामनीकानि प्रविभक्तानि भागशः। यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥५-५६-२५॥
धृतराष्ट्र उवाच॥
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः। येषां युद्धं बलवता भीमेन रणमूर्धनि ॥५-५६-२६॥
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा। गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥५-५६-२७॥
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः। तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥५-५६-२८॥
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः। सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ॥५-५६-२९॥
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः। योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥५-५६-३०॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः। सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ॥५-५६-३१॥
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः। शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥५-५६-३२॥
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः। विराटपुत्रो बभ्रूश्च पाञ्चालाश्च प्रभद्रकाः ॥५-५६-३३॥
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्। वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥५-५६-३४॥
तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः। क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥५-५६-३५॥
दुर्योधन उवाच॥
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ। अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥५-५६-३६॥
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्। जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥५-५६-३७॥
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः। अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥५-५६-३८॥
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्। आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ॥५-५६-३९॥
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्। पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥५-५६-४०॥
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत। ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥५-५६-४१॥
महता रथवंशेन शरजालैश्च मामकैः। अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥५-५६-४२॥
धृतराष्ट्र उवाच॥
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय। न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ॥५-५६-४३॥
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्। बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥५-५६-४४॥
यतो नारोचयमहं विग्रहं तैर्महात्मभिः। किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥५-५६-४५॥
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्। अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥५-५६-४६॥
सञ्जय उवाच॥
धृष्टद्युम्नः सदैवैतान्संदीपयति भारत। युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥५-५६-४७॥
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः। युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥५-५६-४८॥
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्। अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ॥५-५६-४९॥
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम्। एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥५-५६-५०॥
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः। तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ॥ सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ॥५-५६-५१॥
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्। समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ॥ भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ॥५-५६-५२॥
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम्। पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ॥ क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ॥५-५६-५३॥
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ। भयार्तानां परित्राता संयुगेषु न संशयः ॥५-५६-५४॥
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे। धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ॥५-५६-५५॥
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये। सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ॥५-५६-५६॥
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्। दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ॥५-५६-५७॥
भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत। मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ॥५-५६-५८॥
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन। यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥५-५६-५९॥
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः। न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ॥५-५६-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.