05.060
वैशम्पायन उवाच॥
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः। आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥५-६०-१॥
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्। मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥५-६०-२॥
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत। उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥५-६०-३॥
इति द्वैपायनो व्यासो नारदश्च महातपाः। जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥५-६०-४॥
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन। कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ॥५-६०-५॥
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि। कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥५-६०-६॥
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन। दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥५-६०-७॥
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते। देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ॥५-६०-८॥
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति। दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥५-६०-९॥
यद्वा परमकं तेजो येन युक्ता दिवौकसः। ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥५-६०-१०॥
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च। लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥५-६०-११॥
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च। विनाशाय समुत्पन्नं महाघोरं महास्वनम् ॥५-६०-१२॥
अश्मवर्षं च वायुं च शमयामीह नित्यशः। जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥५-६०-१३॥
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः। देवासुराणां भावानामहमेकः प्रवर्तिता ॥५-६०-१४॥
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित्। तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥५-६०-१५॥
भयानि विषये राजन्व्यालादीनि न सन्ति मे। मत्तः सुप्तानि भूतानि न हिंसन्ति भयङ्कराः ॥५-६०-१६॥
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्। धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥५-६०-१७॥
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा। धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥५-६०-१८॥
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा। न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥५-६०-१९॥
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥५-६०-२०॥
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम्। नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥५-६०-२१॥
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप। नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ॥५-६०-२२॥
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम्। आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥५-६०-२३॥
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन। असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥५-६०-२४॥
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह। सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥५-६०-२५॥
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः। तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥५-६०-२६॥
परा बुद्धिः परं तेजो वीर्यं च परमं मयि। परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥५-६०-२७॥
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा। अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥५-६०-२८॥
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत। ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ॥५-६०-२९॥