05.065
वैशम्पायन उवाच॥
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति। तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ॥५-६५-१॥
उत्थितेषु महाराज पृथिव्यां सर्वराजसु। रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥५-६५-२॥
आशंसमानो विजयं तेषां पुत्रवशानुगः। आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥५-६५-३॥
धृतराष्ट्र उवाच॥
गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किञ्चित्। त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः ॥५-६५-४॥
त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः। स मे पृष्टः सञ्जय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति ॥५-६५-५॥
सञ्जय उवाच॥
न त्वां ब्रूयां रहिते जातु किं चि; दसूया हि त्वां प्रसहेत राजन्। आनयस्व पितरं संशितव्रतं; गान्धारीं च महिषीमाजमीढ ॥५-६५-६॥
तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ। तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ॥५-६५-७॥
वैशम्पायन उवाच॥
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च। अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥५-६५-८॥
सम्पृच्छते धृतराष्ट्राय सञ्जय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते। सर्वं यावद्वेत्थ तस्मिन्यथाव; द्याथातथ्यं वासुदेवेऽर्जुने च ॥५-६५-९॥