Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.066
सञ्जय उवाच॥
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ। कामादन्यत्र सम्भूतौ सर्वाभावाय संमितौ ॥५-६६-१॥
द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः। चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥५-६६-२॥
सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम्। सारासारबलं ज्ञात्वा तत्समासेन मे शृणु ॥५-६६-३॥
नरकं शम्बरं चैव कंसं चैद्यं च माधवः। जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः ॥५-६६-४॥
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः। मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥५-६६-५॥
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति। सारासारबलं ज्ञातुं तन्मे निगदतः शृणु ॥५-६६-६॥
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः। सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥५-६६-७॥
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः। न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ॥५-६६-८॥
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः। ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥५-६६-९॥
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः। विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥५-६६-१०॥
स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव। अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥५-६६-११॥
कालचक्रं जगच्चक्रं युगचक्रं च केशवः। आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥५-६६-१२॥
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च। ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ॥५-६६-१३॥
ईशन्नपि महायोगी सर्वस्य जगतो हरिः। कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥५-६६-१४॥
तेन वञ्चयते लोकान्मायायोगेन केशवः। ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥५-६६-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.