05.136
वैशम्पायन उवाच॥
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ । दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥५-१३६-१॥
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ । वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ॥५-१३६-२॥
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् । न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥५-१३६-३॥
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा । सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥५-१३६-४॥
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् । गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ॥ सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥५-१३६-५॥
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता । विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥५-१३६-६॥
दानवान्घोरकर्माणो निवातकवचान्युधि । रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ॥५-१३६-७॥
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी । मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥५-१३६-८॥
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः । रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥५-१३६-९॥
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्षुचिः । तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥५-१३६-१०॥
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः । प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ॥५-१३६-११॥
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् । अभिवादय राजानं यथापूर्वमरिंदम ॥५-१३६-१२॥
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः । प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥५-१३६-१३॥
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः । परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥५-१३६-१४॥
सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः । अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ॥५-१३६-१५॥
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि । तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ॥५-१३६-१६॥
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः । सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव ॥५-१३६-१७॥
प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह । समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥५-१३६-१८॥
अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् । ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥५-१३६-१९॥
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः । उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥५-१३६-२०॥
विशेषत इहास्माकं निमित्तानि विनाशने । उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ॥५-१३६-२१॥
वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते । गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥५-१३६-२२॥
नगरं न यथापूर्वं तथा राजनिवेशनम् । शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ॥५-१३६-२३॥
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् । त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥५-१३६-२४॥
न चेत्करिष्यसि वचः सुहृदामरिकर्शन । तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥५-१३६-२५॥
भीमस्य च महानादं नदतः शुष्मिणो रणे । श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ॥ यद्येतदपसव्यं ते भविष्यति वचो मम ॥५-१३६-२६॥