Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.138
धृतराष्ट्र उवाच॥
राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय । उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥५-१३८-१॥
किमब्रवीद्रथोपस्थे राधेयं परवीरहा । कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥५-१३८-२॥
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् । मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय ॥५-१३८-३॥
सञ्जय उवाच॥
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च । प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥५-१३८-४॥
हृदयग्रहणीयानि राधेयं मधुसूदनः । यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५-१३८-५॥
वासुदेव उवाच॥
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः । तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥५-१३८-६॥
त्वमेव कर्ण जानासि वेदवादान्सनातनान् । त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥५-१३८-७॥
कानीनश्च सहोढश्च कन्यायां यश्च जायते । वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥५-१३८-८॥
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः । निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥५-१३८-९॥
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः । द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥५-१३८-१०॥
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः । अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥५-१३८-११॥
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः । द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥५-१३८-१२॥
राजानो राजपुत्राश्च पाण्डवार्थे समागताः । पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥५-१३८-१३॥
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा । ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥५-१३८-१४॥
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् । षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥५-१३८-१५॥
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः । पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥५-१३८-१६॥
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः । द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥५-१३८-१७॥
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् । युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥५-१३८-१८॥
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः । उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥५-१३८-१९॥
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः । अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥५-१३८-२०॥
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् । रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥५-१३८-२१॥
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति । नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥५-१३८-२२॥
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः । अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ॥ दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥५-१३८-२३॥
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः । जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥५-१३८-२४॥
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः । आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥५-१३८-२५॥
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः । विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥५-१३८-२६॥
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः । प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥५-१३८-२७॥
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा । सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥५-१३८-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.