05.148
वासुदेव उवाच॥
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च । गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत ॥५-१४८-१॥
अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः । अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ॥५-१४८-२॥
अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः । प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ॥५-१४८-३॥
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः । भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ॥५-१४८-४॥
अक्षौहिण्यो दशैका च पार्थिवानां समागताः । तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ॥ यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ॥५-१४८-५॥
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च । गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ॥ एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ॥५-१४८-६॥
साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता । अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये ॥५-१४८-७॥
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते । कर्मानुकीर्तनं चैव देवमानुषसंहितम् ॥५-१४८-८॥
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः । तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥५-१४८-९॥
अद्भुतानि च घोराणि दारुणानि च भारत । अमानुषाणि कर्माणि दर्शितानि च मे विभो ॥५-१४८-१०॥
भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् । राधेयं भीषयित्वा च सौबलं च पुनः पुनः ॥५-१४८-११॥
न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः । भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ॥५-१४८-१२॥
पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् । अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ॥५-१४८-१३॥
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च । तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ॥५-१४८-१४॥
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च । यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ॥५-१४८-१५॥
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय । अवश्यं भरणीया हि पितुस्ते राजसत्तम ॥५-१४८-१६॥
एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत । दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥५-१४८-१७॥
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः । एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ॥५-१४८-१८॥
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव । विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ॥५-१४८-१९॥