06.018
सञ्जय उवाच॥
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः। अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥६-१८-१॥
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः। रथानां नेमिघोषैश्च दीर्यतीव वसुन्धरा ॥६-१८-२॥
हयानां हेषमाणानां योधानां तत्र गर्जताम्। क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥६-१८-३॥
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च। समकम्पन्त सैन्यानि परस्परसमागमे ॥६-१८-४॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः। भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥६-१८-५॥
ध्वजा बहुविधाकारास्तावकानां नराधिप। काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥६-१८-६॥
स्वेषां चैव परेषां च समदृश्यन्त भारत। महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥६-१८-७॥
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः। संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥६-१८-८॥
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः। ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥६-१८-९॥
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप। दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥६-१८-१०॥
विविंशतिश्चित्रसेनो विकर्णश्च महारथः। सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥६-१८-११॥
रथा विंशतिसाहस्रास्तथैषामनुयायिनः। अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥६-१८-१२॥
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा। सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥६-१८-१३॥
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः। महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥६-१८-१४॥
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्। मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥६-१८-१५॥
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्। अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ॥६-१८-१६॥
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः। अनेकशतसाहस्रा नखरप्रासयोधिनः ॥६-१८-१७॥
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत। अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥६-१८-१८॥