6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.021
Pancharatra: Arjuna consoles the terrified Yudhisthira, saying that war is won by wisdom and not strength, and that victory is certain where Lord Krishna is present.
सञ्जय उवाच॥
बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम्। विषादमगमद्राजा कुन्तीपुत्रो युधिष्ठिरः ॥६-२१-१॥
व्यूहं भीष्मेण चाभेद्यं कल्पितं प्रेक्ष्य पाण्डवः। अभेद्यमिव सम्प्रेक्ष्य विषण्णोऽर्जुनमब्रवीत् ॥६-२१-२॥
धनञ्जय कथं शक्यमस्माभिर्योद्धुमाहवे। धार्तराष्ट्रैर्महाबाहो येषां योद्धा पितामहः ॥६-२१-३॥
अक्षोभ्योऽयमभेद्यश्च भीष्मेणामित्रकर्शिना। कल्पितः शास्त्रदृष्टेन विधिना भूरितेजसा ॥६-२१-४॥
ते वयं संशयं प्राप्ताः ससैन्याः शत्रुकर्शन। कथमस्मान्महाव्यूहादुद्यानं नो भविष्यति ॥६-२१-५॥
अथार्जुनोऽब्रवीत्पार्थं युधिष्ठिरममित्रहा। विषण्णमभिसम्प्रेक्ष्य तव राजन्ननीकिनीम् ॥६-२१-६॥
प्रज्ञयाभ्यधिकाञ्शूरान्गुणयुक्तान्बहूनपि। जयन्त्यल्पतरा येन तन्निबोध विशां पते ॥६-२१-७॥
तत्तु ते कारणं राजन्प्रवक्ष्याम्यनसूयवे। नारदस्तमृषिर्वेद भीष्मद्रोणौ च पाण्डव ॥६-२१-८॥
एतमेवार्थमाश्रित्य युद्धे देवासुरेऽब्रवीत्। पितामहः किल पुरा महेन्द्रादीन्दिवौकसः ॥६-२१-९॥
न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः। यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ॥६-२१-१०॥
त्यक्त्वाधर्मं च लोभं च मोहं चोद्यममास्थिताः। युध्यध्वमनहङ्कारा यतो धर्मस्ततो जयः ॥६-२१-११॥
एवं राजन्विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा मे नारदः प्राह यतः कृष्णस्ततो जयः ॥६-२१-१२॥
गुणभूतो जयः कृष्णे पृष्ठतोऽन्वेति माधवम्। अन्यथा विजयश्चास्य संनतिश्चापरो गुणः ॥६-२१-१३॥
अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः। पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ॥६-२१-१४॥
पुरा ह्येष हरिर्भूत्वा वैकुण्ठोऽकुण्ठसायकः। सुरासुरानवस्फूर्जन्नब्रवीत्के जयन्त्विति ॥६-२१-१५॥
अनु कृष्णं जयेमेति यैरुक्तं तत्र तैर्जितम्। तत्प्रसादाद्धि त्रैलोक्यं प्राप्तं शक्रादिभिः सुरैः ॥६-२१-१६॥
तस्य ते न व्यथां काञ्चिदिह पश्यामि भारत। यस्य ते जयमाशास्ते विश्वभुक्त्रिदशेश्वरः ॥६-२१-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.