6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.109
सञ्जय उवाच॥
भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः। विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥६-१०९-१॥
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा। दशैते तावका योधा भीमसेनमयोधयन् ॥६-१०९-२॥
महत्या सेनया युक्ता नानादेशसमुत्थया। भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥६-१०९-३॥
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत्। कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥६-१०९-४॥
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष। दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् ॥६-१०९-५॥
सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत्। विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः ॥६-१०९-६॥
स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक्। प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ॥ विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः ॥६-१०९-७॥
शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः। कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः ॥६-१०९-८॥
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत्। दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ॥६-१०९-९॥
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम्। विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ॥६-१०९-१०॥
अथान्यद्धनुरादाय गौतमो रथिनां वरः। भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ॥६-१०९-११॥
स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः। ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् ॥ गौतमं ताडयामास शरैर्बहुभिराहवे ॥६-१०९-१२॥
सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः। प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥६-१०९-१३॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः। शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥६-१०९-१४॥
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत। भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥६-१०९-१५॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः। चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥६-१०९-१६॥
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः। महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः ॥ विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ॥६-१०९-१७॥
नातीव ममृषे शल्यो भीमसेनस्य विक्रमम्। स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् ॥६-१०९-१८॥
भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥६-१०९-१८॥
कृपश्च कृतवर्मा च भगदत्तश्च मारिष। विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥६-१०९-१९॥
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्। भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिंदमाः ॥६-१०९-२०॥
स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः। शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥६-१०९-२१॥
तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः। सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥६-१०९-२२॥
विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान्। मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६-१०९-२३॥
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः। ताडयामास समरे सिंहवच्च ननाद च ॥६-१०९-२४॥
ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम्। त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥६-१०९-२५॥
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे। पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥६-१०९-२६॥
शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः। प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् ॥६-१०९-२७॥
ततस्तु सशरं चापं सात्वतस्य महात्मनः। क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥६-१०९-२८॥
अथान्यद्धनुरादाय कृतवर्मा वृकोदरम्। आजघान भ्रुवोर्मध्ये नाराचेन परन्तप ॥६-१०९-२९॥
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः। भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥६-१०९-३०॥
द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान्। ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः ॥६-१०९-३१॥
स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः। मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥६-१०९-३२॥
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान्। प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥६-१०९-३३॥
तस्य शक्तिं महावेगां भगदत्तो महारथः। चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् ॥६-१०९-३४॥
तोमरं सैन्धवो राजा पट्टिशं च महाभुजः। शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे ॥६-१०९-३५॥
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान्। भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥६-१०९-३६॥
तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः। पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥६-१०९-३७॥
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः। मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः ॥६-१०९-३८॥
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे। तथेतराञ्शरान्घोराञ्शरैः संनतपर्वभिः ॥६-१०९-३९॥
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्। तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥६-१०९-४०॥
ततो धनञ्जयस्तत्र वर्तमाने महारणे। जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ॥६-१०९-४१॥
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ। नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ ॥६-१०९-४२॥
अथार्जुनो रणे भीष्मं योधयन्वै महारथम्। भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ॥६-१०९-४३॥
आससाद रणे योधांस्तावकान्दश भारत। ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः ॥ बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥६-१०९-४४॥
ततो दुर्योधनो राजा सुशर्माणमचोदयत्। अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥६-१०९-४५॥
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः। जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥६-१०९-४६॥
तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः। अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥६-१०९-४७॥
रथैरनेकसाहस्रैः परिवव्रे समन्ततः। ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥६-१०९-४८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.