07.056
Pancharatra and Core: Conversation between Krishna and Daruka:I will do everything possible to ensure that Arjuna kills Jayadratha in the battle.
सञ्जय उवाच॥
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः। स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ॥ सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसंनिभैः ॥७-५६-१॥
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः। अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥७-५६-२॥
ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः। दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् ॥७-५६-३॥
ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम्। अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् ॥७-५६-४॥
स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत। सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ॥७-५६-५॥
स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान्। दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ॥ शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥७-५६-६॥
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम्। प्रजागरः सर्वजनमाविवेश विशां पते ॥७-५६-७॥
पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना। सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥७-५६-८॥
तत्कथं नु महाबाहुर्वासविः परवीरहा। प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥७-५६-९॥
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना। पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ॥७-५६-१०॥
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च। धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ॥७-५६-११॥
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः। जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् ॥७-५६-१२॥
अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति। न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः ॥७-५६-१३॥
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने। तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥७-५६-१४॥
यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि। फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥७-५६-१५॥
एवं कथयतां तेषां जयमाशंसतां प्रभो। कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥७-५६-१६॥
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः। स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥७-५६-१७॥
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना। जयद्रथं हनिष्यामि श्वोभूत इति दारुक ॥७-५६-१८॥
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति। यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥७-५६-१९॥
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम्। द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ॥७-५६-२०॥
एको वीरः सहस्राक्षो दैत्यदानवमर्दिता। सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥७-५६-२१॥
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः। अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥७-५६-२२॥
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः। कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥७-५६-२३॥
अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः। अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः ॥७-५६-२५॥
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे। धनञ्जयार्थं समरे पराक्रान्तस्य दारुक ॥७-५६-२६॥
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च। साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक ॥७-५६-२७॥
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम्। मया क्रुद्देन समरे पाण्डवार्थे निपातिताम् ॥७-५६-२८॥
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः। ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥७-५६-२९॥
यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु। इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥७-५६-३०॥
यथा त्वमप्रभातायामस्यां निशि रथोत्तमम्। कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः ॥७-५६-३१॥
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान्। आरोप्य वै रथे सूत सर्वोपकरणानि च ॥७-५६-३२॥
स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे। वैनतेयस्य वीरस्य समरे रथशोभिनः ॥७-५६-३३॥
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसंनिभैः। विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् ॥७-५६-३४॥
बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च। युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक ॥७-५६-३५॥
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम्। श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् ॥७-५६-३६॥
एकाह्नाहममर्षं च सर्वदुःखानि चैव ह। भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक ॥७-५६-३७॥
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे। पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥७-५६-३८॥
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति। आशंसे सारथे तत्र भवितास्य ध्रुवो जयः ॥७-५६-३९॥
दारुक उवाच॥
जय एव ध्रुवस्तस्य कुत एव पराजयः। यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥७-५६-४०॥
एवं चैतत्करिष्यामि यथा मामनुशाससि। सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥७-५६-४१॥