07.057 
 
सञ्जय उवाच॥
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः। प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥७-५७-१॥
तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम्। आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥७-५७-२॥
प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जयः। नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥७-५७-३॥
प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ। न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥७-५७-४॥
ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम्। कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥७-५७-५॥
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः। कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥७-५७-६॥
किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर। न शोचितव्यं विदुषा शोकः कार्यविनाशनः ॥७-५७-७॥
शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान्। क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥७-५७-८॥
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः। आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥७-५७-९॥
मया प्रतिज्ञा महती जयद्रथवधे कृता। श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥७-५७-१०॥
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत। पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥७-५७-११॥
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः। प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ॥७-५७-१२॥
दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते। द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥७-५७-१३॥
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः। संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥७-५७-१४॥
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः। हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ॥७-५७-१५॥
पार्थ पाशुपतं नाम परमास्त्रं सनातनम्। येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥७-५७-१६॥
यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम्। अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥७-५७-१७॥
तं देवं मनसा ध्यायञ्जोषमास्स्व धनञ्जय। ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥७-५७-१८॥
ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः। भूमावासीन एकाग्रो जगाम मनसा भवम् ॥७-५७-१९॥
ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे। आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥७-५७-२०॥
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम्। वायुवेगगतिः पार्थः खं भेजे सहकेशवः ॥७-५७-२१॥
केशवेन गृहीतः स दक्षिणे विभुना भुजे। प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ॥७-५७-२२॥
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम्। कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ॥७-५७-२३॥
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम्। सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ॥७-५७-२४॥
सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम्। पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ॥७-५७-२५॥
मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान्। हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ॥ तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥७-५७-२६॥
स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम्। पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ॥ ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥७-५७-२७॥
सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च। पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥७-५७-२८॥
वृषदंशं च शैलेन्द्रं महामन्दरमेव च। अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ॥७-५७-२९॥
तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः। शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् ॥७-५७-३०॥
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्। समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥७-५७-३१॥
वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन्। विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ॥७-५७-३२॥
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्। अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥७-५७-३३॥
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम्। तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥७-५७-३४॥
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा। शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥७-५७-३५॥
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्। पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥७-५७-३६॥
गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम्। वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् ॥७-५७-३७॥
स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः। गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥७-५७-३८॥
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्। पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥७-५७-३९॥
लोकादिं विश्वकर्माणमजमीशानमव्ययम्। मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ॥७-५७-४०॥
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्। देवदानवयक्षाणां मानवानां च साधनम् ॥७-५७-४१॥
योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम्। चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥७-५७-४२॥
कालकोपं महात्मानं शक्रसूर्यगुणोदयम्। अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥७-५७-४३॥
यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः। तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥७-५७-४४॥
अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत। ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् ॥७-५७-४५॥
ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव। स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ॥ किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥७-५७-४६॥
येन कार्येण सम्प्राप्तौ युवां तत्साधयामि वाम्। व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥७-५७-४७॥
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली। वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ॥७-५७-४८॥
नमो भवाय शर्वाय रुद्राय वरदाय च। पशूनां पतये नित्यमुग्राय च कपर्दिने ॥७-५७-४९॥
महादेवाय भीमाय त्र्यम्बकाय च शम्भवे। ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ॥७-५७-५०॥
कुमारगुरवे नित्यं नीलग्रीवाय वेधसे। विलोहिताय धूम्राय व्याधायानपराजिते ॥७-५७-५१॥
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे। हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे ॥७-५७-५२॥
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च। वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे ॥७-५७-५३॥
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च। विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥७-५७-५४॥
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा। ब्रह्मवक्त्राय शर्वाय शङ्कराय शिवाय च ॥७-५७-५५॥
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः। नमो विश्वस्य पतये महतां पतये नमः ॥७-५७-५६॥
नमः सहस्रशिरसे सहस्रभुजमन्यवे। सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ॥७-५७-५७॥
नमो हिरण्यवर्णाय हिरण्यकवचाय च। भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ॥७-५७-५८॥
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः। प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥७-५७-५९॥
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम्। ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥७-५७-६०॥
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः। ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥७-५७-६१॥
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः। इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ॥७-५७-६२॥
ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः। वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥७-५७-६३॥
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ। तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥७-५७-६४॥
येन देवारयः सर्वे मया युधि निपातिताः। तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥७-५७-६५॥
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह। प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ॥७-५७-६६॥
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम्। तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ॥७-५७-६७॥
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम्। नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥७-५७-६८॥
द्वितीयं चापरं नागं सहस्रशिरसं वरम्। वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ॥७-५७-६९॥
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली। तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥७-५७-७०॥
गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम्। अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ॥७-५७-७१॥
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ। धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥७-५७-७२॥
ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्। आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥७-५७-७३॥
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत। पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥७-५७-७४॥
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः। व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ॥७-५७-७५॥
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः। श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥७-५७-७६॥
सरस्येव च तं बाणं मुमोचातिबलः प्रभुः। चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥७-५७-७७॥
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा। वरमारण्यकं दत्तं दर्शनं शङ्करस्य च ॥ मनसा चिन्तयामास तन्मे सम्पद्यतामिति ॥७-५७-७८॥
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः। तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥७-५७-७९॥
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत। ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ॥७-५७-८०॥
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ। प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥ इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥७-५७-८१॥