07.060 
 
सञ्जय उवाच॥
तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः। दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥७-६०-१॥
तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम्। समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥७-६०-२॥
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना। आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥७-६०-३॥
व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान्। यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ॥७-६०-४॥
तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्। दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥७-६०-५॥
ततस्तत्कथयामास यथादृष्टं धनञ्जयः। आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् ॥७-६०-६॥
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः। नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥७-६०-७॥
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना। त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥७-६०-८॥
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः। हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥७-६०-९॥
रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ। जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥७-६०-१०॥
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्। रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥७-६०-११॥
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः। बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा ॥७-६०-१२॥
ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः। कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥७-६०-१३॥
तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत्। बाणबाणासनी वाहं प्रदक्षिणमवर्तत ॥७-६०-१४॥
ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः। स्तूयमानो जयाशीभिरारुरोह महारथम् ॥७-६०-१५॥
जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्। अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥७-६०-१६॥
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः। विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः ॥७-६०-१७॥
अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ। शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥७-६०-१८॥
अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः। मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥७-६०-१९॥
स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः। सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥७-६०-२०॥
सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा। सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥७-६०-२१॥
ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः। प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ॥७-६०-२२॥
सजयाशीः सपुण्याहः सूतमागधनिस्वनः। युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥७-६०-२३॥
तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः। ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥७-६०-२४॥
प्रादुरासन्निमित्तानि विजयाय बहूनि च। पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥७-६०-२५॥
दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्। युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥७-६०-२६॥
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः। यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव ॥७-६०-२७॥
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः। यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥७-६०-२८॥
यथा परमकं कृत्यं सैन्धवस्य वधे मम। तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ॥७-६०-२९॥
स त्वमद्य महाबाहो राजानं परिपालय। यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥७-६०-३०॥
त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे। शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥७-६०-३१॥
मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत। राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥७-६०-३२॥
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः। किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥७-६०-३३॥
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा। तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ॥७-६०-३४॥