Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.061
Pancharatra and Core: Dhritarashtra lamentingly asks - How was your state of mind, after committing the sin against Partha in the evening, when Abhimanyu was killed?
धृतराष्ट्र उवाच॥
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः। अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः ॥७-६१-१॥
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः। कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥७-६१-२॥
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्। आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥७-६१-३॥
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः। दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः ॥७-६१-४॥
किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति। परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् ॥७-६१-५॥
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः। न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने ॥७-६१-६॥
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम। सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥७-६१-७॥
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः। दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥७-६१-८॥
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय। आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥७-६१-९॥
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्। निवेशनं हतोत्साहं पुत्राणां मम लक्षये ॥७-६१-१०॥
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः। अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥७-६१-११॥
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते। द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥७-६१-१२॥
वितण्डालापसंलापैर्हुतयाचितवन्दितैः। गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥७-६१-१३॥
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः। सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा ॥७-६१-१४॥
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये। अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥७-६१-१५॥
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः। श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥७-६१-१६॥
नित्यप्रमुदितानां च तालगीतस्वनो महान्। नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः ॥७-६१-१७॥
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः। सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥७-६१-१८॥
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः। द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् ॥७-६१-१९॥
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः। वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥७-६१-२०॥
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः। आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥७-६१-२१॥
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा। वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥७-६१-२२॥
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः। शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ॥ हितार्थमभिजल्पन्तं न तथास्त्यपराजयः ॥७-६१-२३॥
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्। अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥७-६१-२४॥
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः। अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः ॥७-६१-२५॥
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति। सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति ॥७-६१-२६॥
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा। अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥७-६१-२७॥
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः। सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥७-६१-२८॥
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः। कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥७-६१-२९॥
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्। प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥७-६१-३०॥
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः। तेषामपि समुद्रान्ता पितृपैतामही मही ॥७-६१-३१॥
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि। सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ॥७-६१-३२॥
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः। द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च ॥७-६१-३३॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्। त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् ॥७-६१-३४॥
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा। कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः ॥७-६१-३५॥
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्। नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥७-६१-३६॥
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्। न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥७-६१-३७॥
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः। उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥७-६१-३८॥
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः। अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥७-६१-३९॥
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः। द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ॥७-६१-४०॥
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः। दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः ॥७-६१-४१॥
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात्। दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥७-६१-४२॥
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः। संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥७-६१-४३॥
तेषां मम विलापानां न हि दुर्योधनः स्मरेत्। हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे ॥७-६१-४४॥
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम्। दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥७-६१-४५॥
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्। अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥७-६१-४६॥
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय। यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् ॥ अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥७-६१-४७॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः। अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः ॥७-६१-४८॥
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्। दुःशासनः सौबलश्च तेषामेवं गते अपि ॥ सर्वेषां समवेतानां पुत्राणां मम सञ्जय ॥७-६१-४९॥
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम्। लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः ॥७-६१-५०॥
राज्यकामस्य मूढस्य रागोपहतचेतसः। दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥७-६१-५१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.