07.080
Pancharatra and Core: Description of the flags adorning nine Kaurava warriors on one side and Arjuna on the other-side.
धृतराष्ट्र उवाच॥
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया। पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥७-८०-१॥
सञ्जय उवाच॥
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्। रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥७-८०-२॥
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः। प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥७-८०-३॥
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः। काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥७-८०-४॥
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः। नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ॥७-८०-५॥
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः। नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥७-८०-६॥
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ। दोधूयमाना रथिनां शोभयन्ति महारथान् ॥७-८०-७॥
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम्। धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ॥७-८०-८॥
स वानरवरो राजन्पताकाभिरलङ्कृतः। त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥७-८०-९॥
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत। ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ॥७-८०-१०॥
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्। नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ॥७-८०-११॥
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे। आहवे खं महाराज ददृशे पूरयन्निव ॥७-८०-१२॥
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे। नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥७-८०-१३॥
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः। गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥७-८०-१४॥
स तेन भ्राजते राजन्गोवृषेण महारथः। त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ॥७-८०-१५॥
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्। व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ॥७-८०-१६॥
तेन तस्य रथो भाति मयूरेण महात्मनः। यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥७-८०-१७॥
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव। सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥७-८०-१८॥
सा सीता भ्राजते तस्य रथमास्थाय मारिष। सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥७-८०-१९॥
वराहः सिन्धुराजस्य राजतोऽभिविराजते। ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ॥७-८०-२०॥
शुशुभे केतुना तेन राजतेन जयद्रथः। यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥७-८०-२१॥
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः। ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥७-८०-२२॥
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते। राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥७-८०-२३॥
शलस्य तु महाराज राजतो द्विरदो महान्। केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥७-८०-२४॥
स केतुः शोभयामास सैन्यं ते भरतर्षभ। यथा श्वेतो महानागो देवराजचमूं तथा ॥७-८०-२५॥
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः। किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ॥७-८०-२६॥
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते। ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥७-८०-२७॥
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः। व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ॥७-८०-२८॥
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः। अदीप्यतार्जुनो येन हिमवानिव वह्निना ॥७-८०-२९॥
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः। कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥७-८०-३०॥
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः। गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥७-८०-३१॥
तवापराधाद्धि नरा निहता बहुधा युधि। नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥७-८०-३२॥
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम्। दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥७-८०-३३॥
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः। यदेको बहुभिः सार्धं समागच्छदभीतवत् ॥७-८०-३४॥
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः। जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ॥७-८०-३५॥
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः। अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ॥७-८०-३६॥
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः। अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥७-८०-३७॥
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने। महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ॥७-८०-३८॥