07.081 
 
धृतराष्ट्र उवाच॥
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः। पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥७-८१-१॥
सञ्जय उवाच॥
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे। पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥७-८१-२॥
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः। अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ॥७-८१-३॥
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः। पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥७-८१-४॥
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह। तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥७-८१-५॥
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः। कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥७-८१-६॥
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः। प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ॥७-८१-७॥
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः। विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥७-८१-८॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ॥७-८१-९॥
तमापतन्तं सहसा व्यादितास्यमिवान्तकम्। वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥७-८१-१०॥
युधिष्ठिरं महाराज जिगीषुं समवस्थितम्। सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥७-८१-११॥
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी। अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥७-८१-१२॥
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः। शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥७-८१-१३॥
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्। शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥७-८१-१४॥
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान्। संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ॥७-८१-१५॥
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम्। प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥७-८१-१६॥
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे। यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥७-८१-१७॥
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्। आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ॥७-८१-१८॥
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे। रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥७-८१-१९॥
भूय एव तु विंशत्या सायकानां समाचिनोत्। साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥७-८१-२०॥
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः। अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥७-८१-२१॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे। चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ॥७-८१-२२॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः। शरैरनेकसाहस्रैः पुरयामास सर्वतः ॥७-८१-२३॥
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः। सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥७-८१-२४॥
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम्। हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ॥७-८१-२५॥
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः। त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ॥ आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥७-८१-२६॥
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः। चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥७-८१-२७॥
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः। शक्तिं जग्राह समरे गिरीणामपि दारणीम् ॥ स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥७-८१-२८॥
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली। नादेन सर्वभूतानि त्रासयन्निव भारत ॥७-८१-२९॥
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे। स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥७-८१-३०॥
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा। प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ॥ द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥७-८१-३१॥
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते। प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥७-८१-३२॥
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्। जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥७-८१-३३॥
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्। अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ॥७-८१-३४॥
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः। क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ॥७-८१-३५॥
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः। गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥७-८१-३६॥
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः। गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ॥७-८१-३७॥
ते गदे सहसा मुक्ते समासाद्य परस्परम्। सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥७-८१-३८॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष। चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥७-८१-३९॥
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम्। केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥७-८१-४०॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः। तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥७-८१-४१॥
विरथं तं समालोक्य व्यायुधं च विशेषतः। द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥७-८१-४२॥
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः। अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥७-८१-४३॥
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना। हा हेति सहसा शब्दः पाण्डूनां समजायत ॥७-८१-४४॥
हृतो राजा हृतो राजा भारद्वाजेन मारिष। इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥७-८१-४५॥
ततस्त्वरितमारुह्य सहदेवरथं नृपः। अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥७-८१-४६॥