07.082 
 
सञ्जय उवाच॥
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम्। क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥७-८२-१॥
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्। आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ॥७-८२-२॥
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥७-८२-३॥
अथैनं छिन्नधन्वानं शरेण नतपर्वणा। विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ॥७-८२-४॥
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव। व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ॥७-८२-५॥
ततोऽपरेण भल्लेन पीतेन निशितेन च। जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥७-८२-६॥
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्। सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥७-८२-७॥
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः। सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥७-८२-८॥
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी। वीरधन्वा महेष्वासो वारयामास भारत ॥७-८२-९॥
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ। शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥७-८२-१०॥
तावुभौ नरशार्दूलौ युयुधाते परस्परम्। महावने तीव्रमदौ वारणाविव यूथपौ ॥७-८२-११॥
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ। युयुधाते महावीर्यौ परस्परजिघांसया ॥७-८२-१२॥
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते। सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ॥७-८२-१३॥
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम्। द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥७-८२-१४॥
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः। शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ॥७-८२-१५॥
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत। चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥७-८२-१६॥
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम्। निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥७-८२-१७॥
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे। बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥७-८२-१८॥
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत्। ननाद च महानादं तर्जयन्पाण्डवं रणे ॥७-८२-१९॥
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः। भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥७-८२-२०॥
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्। दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥७-८२-२१॥
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः। जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥७-८२-२२॥
अथापरेण भल्लेन पीतेन निशितेन च। चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ॥७-८२-२३॥
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः। सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥७-८२-२४॥
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा। आरुरोह रथं राजन्निरमित्रस्य भारत ॥७-८२-२५॥
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे। जघान पृतनामध्ये भल्लेन परवीरहा ॥७-८२-२६॥
स पपात रथोपस्थान्निरमित्रो जनेश्वरः। त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥७-८२-२७॥
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत। यथा दाशरथी रामः खरं हत्वा महाबलम् ॥७-८२-२८॥
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर। राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ॥७-८२-२९॥
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम्। मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ॥७-८२-३०॥
सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः। चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥७-८२-३१॥
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत्। साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥७-८२-३२॥
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो। मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥७-८२-३३॥
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः। भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ॥७-८२-३४॥
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम्। तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ॥ नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ॥७-८२-३५॥
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः। बलं तेऽभज्यत विभो युयुधानशरार्दितम् ॥७-८२-३६॥
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः। विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥७-८२-३७॥
भज्यमानं बलं राजन्सात्वतेन महात्मना। नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥७-८२-३८॥
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी। सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥७-८२-३९॥