Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.083
सञ्जय उवाच॥
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः। एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥७-८३-१॥
ते पीडिता भृशं तेन रौद्रेण सहसा विभो। प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ॥७-८३-२॥
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम्। द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥७-८३-३॥
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः। विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥७-८३-४॥
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान्। एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥७-८३-५॥
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना। परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥७-८३-६॥
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः। प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥७-८३-७॥
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः। ननाद बलवन्नादं विव्याध च शितैः शरैः ॥७-८३-८॥
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत्। नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥७-८३-९॥
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्। क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥७-८३-१०॥
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्। भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥७-८३-११॥
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः। वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥७-८३-१२॥
अलम्बुसस्तु समरे भीमसेनं महाबलम्। योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥७-८३-१३॥
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ। विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥७-८३-१४॥
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः। विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥७-८३-१५॥
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्। अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥७-८३-१६॥
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः। भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ॥ पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥७-८३-१७॥
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः। निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥७-८३-१८॥
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः। विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ॥ अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥७-८३-१९॥
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः। शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥७-८३-२०॥
स वध्यमानः समरे भीमचापच्युतैः शरैः। स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥७-८३-२१॥
घोरं रूपमथो कृत्वा भीमसेनमभाषत। तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥७-८३-२२॥
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली। परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥७-८३-२३॥
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा। महाता शरवर्षेण भृशं तं समवाकिरत् ॥७-८३-२४॥
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा। आकाशं पूरयामास शरैः संनतपर्वभिः ॥७-८३-२५॥
स वध्यमानो भीमेन निमेषाद्रथमास्थितः। जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥७-८३-२६॥
उच्चावचानि रूपाणि चकार सुबहूनि च। उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥७-८३-२७॥
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः। हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ॥ रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥७-८३-२८॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्। छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥७-८३-२९॥
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्। वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥७-८३-३०॥
तं तथा समरे राजन्विचरन्तमभीतवत्। पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ॥७-८३-३१॥
तावकानां तु सैन्यानां प्रहर्षः समजायत। वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥७-८३-३२॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः। नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥७-८३-३३॥
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः। संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥७-८३-३४॥
ततः शरसहस्राणि प्रादुरासन्समन्ततः। तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥७-८३-३५॥
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे। राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥७-८३-३६॥
स वध्यमानो बहुधा भीमसेनेन राक्षसः। सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥७-८३-३७॥
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना। अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥७-८३-३८॥
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्। प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥७-८३-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.