07.084
Core and Pancharatra: The mighty demon king Alambusa was killed by the heroic Ghatotkacha.
सञ्जय उवाच॥
अलम्बुसं तथा युद्धे विचरन्तमभीतवत्। हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥७-८४-१॥
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः। कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥७-८४-२॥
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत्। घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ॥ अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥७-८४-३॥
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम्। विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥७-८४-४॥
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ। निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥७-८४-५॥
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम्। मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥७-८४-६॥
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप। तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥७-८४-७॥
तं तथा युध्यमानं तु मायायुद्धविशारदम्। अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥७-८४-८॥
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ॥७-८४-९॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष। सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥७-८४-१०॥
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया। तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥७-८४-११॥
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम्। मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥ युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥७-८४-१२॥
नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष। पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥७-८४-१३॥
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः। युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ॥ नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥७-८४-१४॥
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः। पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥७-८४-१५॥
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः। प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥७-८४-१६॥
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः। हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥७-८४-१७॥
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः। व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥७-८४-१८॥
ते शरा नतपर्वाणो विविशू राक्षसं तदा। रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥७-८४-१९॥
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान्। प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥७-८४-२०॥
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः। दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥७-८४-२१॥
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः। निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥७-८४-२२॥
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च। भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥७-८४-२३॥
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः। घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥७-८४-२४॥
ततः सुमनसः पार्था हते तस्मिन्निशाचरे। चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥७-८४-२५॥
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम्। अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ॥ हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥७-८४-२६॥
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः। यदृच्छया निपतितं भूमावङ्गारकं यथा ॥७-८४-२७॥
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्। मुमोच बलवन्नादं बलं हत्वेव वासवः ॥७-८४-२८॥
स पूज्यमानः पितृभिः सबान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते। रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ॥७-८४-२९॥
ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान्। निशम्य तं प्रत्यनदंस्तु कौरवाः; ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥७-८४-३०॥