Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.098
सञ्जय उवाच॥
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्। भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥७-९८-१॥
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः। कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥७-९८-२॥
राजपुत्रो भवानत्र राजभ्राता महारथः। किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ॥७-९८-३॥
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह। एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥७-९८-४॥
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे। शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥७-९८-५॥
अप्रियाणां च वचनं पाण्डवेषु विशेषतः। द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥७-९८-६॥
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम्। आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥७-९८-७॥
शोच्येयं भारती सेना राजा चैव सुयोधनः। यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥७-९८-८॥
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता। स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥ स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ॥७-९८-९॥
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन। कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥७-९८-१०॥
एकेन सात्वतेनाद्य युध्यमानस्य चानघ। पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥७-९८-११॥
यदा गाण्डीवधन्वानं भीमसेनं च कौरव। यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ॥७-९८-१२॥
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम्। न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥७-९८-१३॥
यदि तावत्कृता बुद्धिः पलायनपरायणा। पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ॥७-९८-१४॥
यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः। नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥७-९८-१५॥
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे। नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥७-९८-१६॥
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः। कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥७-९८-१७॥
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्। सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥७-९८-१८॥
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः। अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः ॥ न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥७-९८-१९॥
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः। गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥७-९८-२०॥
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत। आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥७-९८-२१॥
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ। श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥७-९८-२२॥
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्। आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥७-९८-२३॥
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा। अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ॥७-९८-२४॥
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम्। द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥७-९८-२५॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे। पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥७-९८-२६॥
तं जयन्तमनीकानि भारद्वाजं ततस्ततः। पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥७-९८-२७॥
स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः। ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥७-९८-२८॥
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे। यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥७-९८-२९॥
संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष। आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥७-९८-३०॥
ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः। शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥७-९८-३१॥
निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः। महाजलधरान्व्योम्नि मातरिश्वा विवानिव ॥७-९८-३२॥
ततः शरं महाघोरं सूर्यपावकसंनिभम्। संदधे परवीरघ्नो वीरकेतुरथं प्रति ॥७-९८-३३॥
स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम्। अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥७-९८-३४॥
ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः। पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥७-९८-३५॥
तस्मिन्हते महेष्वासे राजपुत्रे महाबले। पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥७-९८-३६॥
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत। तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ॥७-९८-३७॥
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः। मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥७-९८-३८॥
स वध्यमानो बहुधा राजपुत्रैर्महारथैः। व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥७-९८-३९॥
तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः। पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ॥७-९८-४०॥
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः। देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥७-९८-४१॥
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्। कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥७-९८-४२॥
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्। धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ॥ अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ॥७-९८-४३॥
ततो हा हेति सहसा नादः समभवन्नृप। पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥७-९८-४४॥
सञ्छाद्यमानो बहुधा पार्षतेन महात्मना। न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥७-९८-४५॥
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः। आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥७-९८-४६॥
स गाढविद्धो बलिना भारद्वाजो महायशाः। निषसाद रथोपस्थे कश्मलं च जगाम ह ॥७-९८-४७॥
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी। समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ॥७-९८-४८॥
अवप्लुत्य रथाच्चापि त्वरितः स महारथः। आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ॥ हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ॥७-९८-४९॥
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः। शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ॥ योधयामास समरे धृष्टद्युम्नं महारथम् ॥७-९८-५०॥
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः। द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ॥७-९८-५१॥
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः। अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥७-९८-५२॥
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः। विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥७-९८-५३॥
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्। क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ॥७-९८-५४॥
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः। वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ॥७-९८-५५॥
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः। शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥ ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥७-९८-५६॥
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा। व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥७-९८-५७॥
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्। स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ॥ न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ॥७-९८-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.