Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.102
सञ्जय उवाच॥
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः। सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥७-१०२-१॥
वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे। प्रक्षये जगतस्तीव्रे युगान्त इव भारत ॥७-१०२-२॥
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः। पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥७-१०२-३॥
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः। चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥७-१०२-४॥
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया। युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥७-१०२-५॥
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्। गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥७-१०२-६॥
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्। चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ॥ नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ॥७-१०२-७॥
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः। अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥७-१०२-८॥
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे। शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥७-१०२-९॥
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै। सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ॥७-१०२-१०॥
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्। सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥७-१०२-११॥
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि। युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥७-१०२-१२॥
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः। परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥७-१०२-१३॥
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्। पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥७-१०२-१४॥
यथैव च मम प्रीतिरर्जुने शत्रुसूदने। तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥७-१०२-१५॥
अतिभारे नियुक्तश्च मया शैनेयनन्दनः। स तु मित्रोपरोधेन गौरवाच्च महाबलः ॥ प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥७-१०२-१६॥
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्। मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥७-१०२-१७॥
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे। तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥ गमनं रोचते मह्यं यत्र यातौ महारथौ ॥७-१०२-१८॥
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन। शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ॥ स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥७-१०२-१९॥
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः। वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥७-१०२-२०॥
इतो गते भीमसेने सात्वतं प्रति पाण्डवे। सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥७-१०२-२१॥
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ। रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ॥७-१०२-२२॥
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्। तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥ ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥७-१०२-२३॥
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः। यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ॥७-१०२-२४॥
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः। रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥७-१०२-२५॥
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन्। कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ॥७-१०२-२६॥
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्। तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥७-१०२-२७॥
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्। नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ॥७-१०२-२८॥
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः। उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥७-१०२-२९॥
न ह्यसाध्यमकार्यं वा विद्यते मम मानद। आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥७-१०२-३०॥
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्। भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥७-१०२-३१॥
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते। प्रेरितो वासुदेवेन संरब्धेन यशस्विना ॥ नूनमद्य हतः शेते तव भ्राता धनञ्जयः ॥७-१०२-३२॥
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः। यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥७-१०२-३३॥
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः। स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥७-१०२-३४॥
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः। श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ॥७-१०२-३५॥
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः। चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ॥७-१०२-३६॥
तदिदं मम भद्रं ते शोकस्थानमरिंदम। अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ॥७-१०२-३७॥
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः। तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥७-१०२-३८॥
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्। स तं महारथं पश्चादनुयातस्तवानुजम् ॥ तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥७-१०२-३९॥
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः। यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ॥७-१०२-४०॥
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः। सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ॥ वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥७-१०२-४१॥
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा। चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ॥ पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥७-१०२-४२॥
भीमसेन उवाच॥
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः। तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥७-१०२-४३॥
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः। समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥७-१०२-४४॥
सञ्जय उवाच॥
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्। धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ॥ धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥७-१०२-४५॥
विदितं ते महाबाहो यथा द्रोणो महारथः। ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥७-१०२-४६॥
न च मे गमने कृत्यं तादृक्पार्षत विद्यते। यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥७-१०२-४७॥
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे। प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ धर्मराजस्य वचने स्थातव्यमविशङ्कया ॥७-१०२-४८॥
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम्। एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥७-१०२-४९॥
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्। ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ॥७-१०२-५०॥
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन। निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥७-१०२-५१॥
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः। अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥७-१०२-५२॥
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत। आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥७-१०२-५३॥
भीमसेनो महाबाहुः कवची शुभकुण्डली। साङ्गदः सतनुत्राणः सशरी रथिनां वरः ॥७-१०२-५४॥
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत्। विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ॥७-१०२-५५॥
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः। कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥७-१०२-५६॥
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया। पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ॥७-१०२-५७॥
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत्। पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ॥७-१०२-५८॥
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्। पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥७-१०२-५९॥
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि। कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥७-१०२-६०॥
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम्। द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ॥७-१०२-६१॥
स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः। मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ॥ दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ॥७-१०२-६२॥
गच्छ गच्छेति च पुनर्भीमसेनमभाषत। भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥ आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥७-१०२-६३॥
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः। दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ॥७-१०२-६४॥
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः। विशोकेनाभिसंयत्ता मनोमारुतरंहसः ॥७-१०२-६५॥
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना। सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥७-१०२-६६॥
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः। पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥७-१०२-६७॥
तं ससेना महाराज सोदर्याः पर्यवारयन्। दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥७-१०२-६८॥
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा। विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥७-१०२-६९॥
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः। अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥७-१०२-७०॥
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः। संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ॥७-१०२-७१॥
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी। अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥७-१०२-७२॥
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्। वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥७-१०२-७३॥
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्। अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥७-१०२-७४॥
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः। दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥७-१०२-७५॥
त्रासिताः शरभस्येव गर्जितेन वने मृगाः। प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ॥७-१०२-७६॥
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत्। तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥७-१०२-७७॥
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव। ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥७-१०२-७८॥
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा। भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥७-१०२-७९॥
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्। मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥७-१०२-८०॥
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम। अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ॥७-१०२-८१॥
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः। क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥७-१०२-८२॥
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्। प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥७-१०२-८३॥
येन वै परमां पूजां कुर्वता मानितो ह्यसि। नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥७-१०२-८४॥
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम्। इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥७-१०२-८५॥
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते। यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ॥ एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥७-१०२-८६॥
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः। द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥७-१०२-८७॥
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा। प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥७-१०२-८८॥
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम्। अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ॥७-१०२-८९॥
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी। अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥७-१०२-९०॥
ते वध्यमानाः समरे तव पुत्रा महारथाः। भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ॥७-१०२-९१॥
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्। सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥७-१०२-९२॥
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम्। द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥७-१०२-९३॥
अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम्। सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥७-१०२-९४॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥७-१०२-९५॥
अभयं रौद्रकर्माणं दुर्विमोचनमेव च। त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥७-१०२-९६॥
वध्यमाना महाराज पुत्रास्तव बलीयसा। भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥७-१०२-९७॥
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्। प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥७-१०२-९८॥
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ। विव्याध समरे तूर्णं स पपात ममार च ॥७-१०२-९९॥
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः। दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ॥७-१०२-१००॥
ततो वै रथघोषेण गर्जितेन मृगा इव। वध्यमानाश्च समरे पुत्रास्तव विशां पते ॥ प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ॥७-१०२-१०१॥
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम्। विव्याध समरे राजन्कौरवेयान्समन्ततः ॥७-१०२-१०२॥
वध्यमाना महाराज भीमसेनेन तावकाः। त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ॥७-१०२-१०३॥
तांस्तु निर्जित्य समरे भीमसेनो महाबलः। सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥७-१०२-१०४॥
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः। व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥७-१०२-१०५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.