Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.104
धृतराष्ट्र उवाच॥
तथा तु नर्दमानं तं भीमसेनं महाबलम्। मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥७-१०४-१॥
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय। क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ॥७-१०४-२॥
गदामुद्यच्छमानस्य कालस्येव महामृधे। न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥७-१०४-३॥
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च। कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥७-१०४-४॥
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः। दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥७-१०४-५॥
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्। प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥७-१०४-६॥
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे। कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७-१०४-७॥
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः। के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥७-१०४-८॥
सञ्जय उवाच॥
तथा तु नर्दमानं तं भीमसेनं महारथम्। तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥७-१०४-९॥
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः। कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥७-१०४-१०॥
प्रावेपन्निव गात्राणि कर्णभीमसमागमे। रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥७-१०४-११॥
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे। खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ॥७-१०४-१२॥
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः। समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥७-१०४-१३॥
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। वाहनानि महाराज बभूवुर्विमनांसि च ॥७-१०४-१४॥
प्रादुरासन्निमित्तानि घोराणि च बहूनि च। तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥७-१०४-१५॥
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्। विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥७-१०४-१६॥
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे। सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥७-१०४-१७॥
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्। असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ॥ चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥७-१०४-१८॥
तं कर्णश्छादयामास शरव्रातैरनेकशः। सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥७-१०४-१९॥
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः। विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥७-१०४-२०॥
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः। विव्याध समरे भीमं भीमकर्मा महारथः ॥७-१०४-२१॥
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः। निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥७-१०४-२२॥
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा। महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥७-१०४-२३॥
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः। धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥७-१०४-२४॥
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः। ससायकं धनुः कृत्वा भीमं विव्याध मारिष ॥ चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥७-१०४-२५॥
स छाद्यमानः सहसा कर्णेन दृढधन्विना। धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥७-१०४-२६॥
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्। वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ॥७-१०४-२७॥
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते। स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥७-१०४-२८॥
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्। ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥७-१०४-२९॥
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः। कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥७-१०४-३०॥
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा। शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ॥ गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥७-१०४-३१॥
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः। अश्रूयत महाराज सर्वसैन्येषु भारत ॥७-१०४-३२॥
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ। मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥७-१०४-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.