07.109
सञ्जय उवाच॥
स तथा विरथः कर्णः पुनर्भीमेन निर्जितः। रथमन्यं समास्थाय सद्यो विव्याध पाण्डवम् ॥७-१०९-१॥
महागजाविवासाद्य विषाणाग्रैः परस्परम्। शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥७-१०९-२॥
अथ कर्णः शरव्रातैर्भीमं बलवदर्दयत्। ननाद बलवन्नादं पुनर्विव्याध चोरसि ॥७-१०९-३॥
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः। पुनर्विव्याध विंशत्या शराणां नतपर्वणाम् ॥७-१०९-४॥
कर्णस्तु नवभिर्भीमं विद्ध्वा राजन्स्तनान्तरे। ध्वजमेकेन विव्याध सायकेन शितेन ह ॥७-१०९-५॥
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत। तोत्त्रैरिव महानागं कशाभिरिव वाजिनम् ॥७-१०९-६॥
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना। सृक्विणी लेलिहन्वीरः क्रोधसंरक्तलोचनः ॥७-१०९-७॥
ततः शरं महाराज सर्वकायावदारणम्। प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥७-१०९-८॥
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः। अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥७-१०९-९॥
सर्वशैक्यां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्। प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ॥७-१०९-१०॥
तया जघानाधिरथेः सदश्वान्साधुवाहिनः। गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥७-१०९-११॥
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ। ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनत्तदा ॥७-१०९-१२॥
हताश्वसूतमुत्सृज्य रथं स पतितध्वजम्। विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥७-१०९-१३॥
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम्। विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥७-१०९-१४॥
विरथं तं रथश्रेष्ठं दृष्ट्वाधिरथिमाहवे। दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥७-१०९-१५॥
एष दुर्मुख राधेयो भीमेन विरथीकृतः। तं रथेन नरश्रेष्ठं सम्पादय महारथम् ॥७-१०९-१६॥
दुर्योधनवचः श्रुत्वा ततो भारत दुर्मुखः। त्वरमाणोऽब्ययात्कर्णं भीमं चावारयच्छरैः ॥७-१०९-१७॥
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम्। वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिलेलिहन् ॥७-१०९-१८॥
ततः कर्णं महाराज वारयित्वा शिलीमुखैः। दुर्मुखाय रथं शीघ्रं प्रेषयामास पाण्डवः ॥७-१०९-१९॥
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः। सुपुङ्खैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥७-१०९-२०॥
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते। आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥७-१०९-२१॥
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्। दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥७-१०९-२२॥
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्। दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥७-१०९-२३॥
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः। प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥७-१०९-२४॥
ते तस्य कवचं भित्त्वा स्वर्णपुङ्खा महौजसः। हेमचित्रा महाराज द्योतयन्तो दिशो दश ॥७-१०९-२५॥
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः। क्रुद्धा इव मनुष्येन्द्र भुजगाः कालचोदिताः ॥७-१०९-२६॥
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः। अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥७-१०९-२७॥
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः। चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥७-१०९-२८॥
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः। प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥७-१०९-२९॥
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम्। गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥७-१०९-३०॥
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः। सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥७-१०९-३१॥
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः। सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥७-१०९-३२॥
स विह्वलो महाराज कर्णो भीमबलार्दितः। प्राद्रवज्जवनैरश्वै रणं हित्वा महायशाः ॥७-१०९-३३॥
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्। आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥७-१०९-३४॥